________________
सूत्र २५] .स्त्रोपज्ञभाष्य-टीकालङ्कृतम्
१७५ टी--नामप्रत्यया इत्यादि भाष्यम् । संज्ञानामान्वर्थं सर्वकर्मणामुक्तं ज्ञानावरणाद्यन्तरायपर्यवसानं तस्य प्रत्ययाः-कारणानीति षष्ठीसमासः । न हि तानन्तरेण तदाख्योदयादिसम्भवो मुक्तस्येवात्मनः संसारिणः प्रथमप्रश्नः। एवं द्वितीयविकल्पः किंप्रत्ययो वेति द्वितीयभेदाश्रयणेन भाष्यम्-नाम प्रत्यय एषां ते इमे नामप्रत्यया इति बहुव्रीहिः, अन्यपदार्थश्च, गतिजात्यादिभेदं नामकर्म । औदारिकशरीरादयो योगाः कर्मणो निमित्ततांप्रतिपद्यन्ते पारम्पर्येण गत्यादयोऽपीत्यतो नामकर्मकारणाः पुद्गला बध्यन्त इति । प्रत्ययशब्दस्य पर्यायशब्दाख्यिाना ख्यापनायाह-नामनिमित्ता इत्यादि । नाम निमित्तं-हेतु:-कारणमेषां ते इमे नामनिमित्तादयः । इतिशब्दः प्रकारवाची । अपरे नामप्रत्यया बन्धननाम व्याचक्षते । नामकर्मण उत्तरप्रकृतिः शरीरनामान्तर्गता बन्धननाम तत्प्रत्ययाः किल पुद्गला इति । तच्च गृहीतगृह्यमाणपुद्गलानामन्यशरीरपुद्गलैचो सम्बन्धो यस्य कर्मण उदयाद् भवति, काष्ठद्वयमेदैकध्यकरणे जतुवदिति । अथवाऽयमर्थः-प्रत्याययतीति प्रत्ययः । नाम प्रत्ययः कर्मेषामिति नामप्रत्ययाः नाम्नैव प्रत्याय्यन्ते यादृशाः पुद्गलाः प्रदेशबन्धस्य कारणीभवन्ति । ज्ञानावरणं दर्शनावरणमित्यादि नाम तेन नाम्ना स्वरूपमाख्यायते तेषाम्, ज्ञानावरणसमर्थाः पुद्गला येन बध्यन्ते दर्शनावरणसमर्थाश्चेत्येवमन्यत्रापि योज्यम् । ननु चैकाकारा एव पुद्गलाः समादीयन्ते न तु ज्ञानावरणादिविशिष्टाः केचिद् बहिः सन्तीति ? उच्यते-सत्यमेतत् । वयं विंदमभिदध्महे ज्ञानावरणादिकानां सर्वासां मूलप्रकृतीनां कर्मभेदानां सामर्थेऽन्ये(ने?)न योगानां कर्मवर्गणानां ग्रहणमाम्नायते । ततः सामान्यगृहीतानामध्यवसायविशेषात् पृथक्पृथर ज्ञानावरणादिभेदत्वेन परिणमयत्यात्मेति ॥
भा०-सर्वतस्तिर्यगूर्ध्वमधश्च बध्यन्ते । योगविशेषात् कायवाङ्मनाकर्मविशेषाच बध्यन्ते।
टी.-सर्वत इति । सर्वासु दिक्षु आत्मावधिकासु.व्यवस्थितान् पुद्गलानादत्ते । सप्तम्यन्तात् तसिः । एतत् प्रतिपादयन्नाह-तिर्यगूर्वमधश्च बध्यन्त इति । तिर्यगष्टौ काष्ठाः ऊर्ध्वमधश्चैकैकेति । अतः सर्वासु दिक्ष्ववस्थितान् स्कन्धान लाति, नैकदिक्प्रतिष्ठान , सर्व'सर्वतः पदस्य
.. जीवप्रदेशः सर्वजीवप्रदेशस्थानितियावत् ॥ अपरे व्याचक्षते सर्वत व्याख्याने मतभेदः शर
। इति । सर्वैरात्मप्रदेशैः कर्मपुद्गलान् गृह्णाति । तृतीयान्तात् तसिः। एते
"" चात्मप्रदेशाः शरीरिणो जीवस्य केचिदूर्ध्व केचिचाधस्तादिति, न चास्ति पुनरुक्ततादोषः। सर्वात्मप्रदेशेष्वित्यत्रानन्तानन्तप्रदेशाभिसम्बन्धादिति । नापि सर्वेषां बन्धकानां सम्बन्धस्तुल्यः। कुतः १ योगविशेषादित्याह । आत्मना युज्यत इति योगः
१ 'प्रत्ययाविति' इति ग-पाठः । २ 'नामभेदं' इति ग-पाठः । ३ 'प्रत्याख्यानायाह' इति ग-पाठः । ४ 'यतो बध्यन्ते' इति ग-पाठः। ५ 'मेतत्संदध्महे' इति ग-पाठः, च-पाठस्तु 'मपि संदध्महे'। ६ 'सामान्येन' इति ग-पाठः । ७ 'योग्यानां' इति च-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org