SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ १७४ तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः८ निर्जरा । आह च " तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः । आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः ॥१॥" यथासङ्ख्यमेते सङ्क्रमस्थित्युदीरणासु योज्याः । अत्र सूत्रे चशब्दो हेत्वन्तरमपेक्षते । विपाकहेतुका निर्जरेत्येको हेतुः । अस्मादन्यो हेतुर्हेत्वन्तरम् । तत्प्रदर्शनायाह-सपसा निर्जरा चेति वक्ष्यते-नवमेऽध्यायेऽभिधास्यते संवराधिकारे ( तृतीयसूत्रे )। तपसा द्वादशप्रकारेण संवरश्च भवति निर्जरा चेति । तपोऽपि निर्जराहेतुरतो निमित्तान्तरसमुच्चयार्थश्चशब्दः । इह चाष्टमे कर्मविरामणार्थ निर्जराग्रहणं, नवमे संवरार्थमिति ॥ २४ ॥ भा०-उक्तोऽनुभावबन्धः, प्रदेशबन्धं वक्ष्यामः॥ टी०-उक्तोऽनुभावबन्धः । प्रदेशबन्धं वक्ष्याम इति उत्तरसूत्रसम्बन्धग्रन्थः । बन्धचतुष्टयी प्रकृता । ततः तृतीयोऽनुभावबन्ध उक्तः प्रपञ्चेन । सम्प्रति प्रदेशबन्धं वक्ष्याम इति प्रतिजानीते। तत्प्रतिपादनायाह सूत्रम्-नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः ॥ ८-२५ ॥ टी०-नामप्रत्यया इति सूत्रम् । अत्राष्टौ प्रश्ना:-कस्य प्रत्ययाः कारणीभूताः, किंप्रत्यया वा पुद्गला बध्यन्त (इति) एका प्रश्नः १, जीवोऽपि तान् बनानः पुद्गलान् किमेकेन र दिक्प्रदेशेन बध्नाति, उत सर्वदिक्प्रदेशैरिति ग्रहणमात्रमत्र विवक्षितम् २, प्रदेशबन्धवि : सोऽपि बन्धः किं सर्वजीवानां तुल्यः आहोस्वित् कुतश्चिनिमित्तादतुल्यः ? - ३, किंगुणाः केवलाः पुद्गला बन्धास्पदं भवन्ति ४, यत्र चाकाशदेशे व्यवस्थिताः पुद्गलास्तत्रैवावगाढा ये जीवप्रदेशाः किं तेषामेव पुद्गलानां तत्र बन्धः, आहोस्विजीवप्रदेशावगीढगगनदेशव्यतिरिक्तप्रदेशवर्तिनोऽपि वध्यन्ते १५, किं वा स्थितिपरिणता बध्यन्ते, अथवा गतिपरिणताः १६, ते च किमात्मना सर्वप्रदेशेषु अथैकैकदिशे श्लिष्यन्ति १७, स्कन्धा वा किसङ्ख्येयासङ्ख्येयानन्तप्रदेशा बध्यन्ते,उतानन्तानन्तप्रदेशा इति१८ । एषामष्टानां प्रश्नानां क्रमेणाष्टाभिः सूत्रावयवैर्निराकाङ्कीकरणं-नामप्रत्ययाः १ सर्वतः २ योगविशोषात ३ सूक्ष्माः ४ एकक्षेत्रावगाढाः ५ स्थिताः ६ सर्वात्मप्रदेशेषु ७ अनन्तानन्तप्रदेशाः ८ इति॥ भा०-नामप्रत्ययाः पुद्गलाः 'बध्यन्ते । नाम प्रत्यय एषां ते इमे नामप्रत्ययाः । नामनिमित्ता नामहेतुका नामकारणा इत्यर्थः । १' यन्नाह ' इति ग-पाठः । २ 'कारणभूताः' इति च-पाठः । ३ 'गाढ़भाग' इति ग-पाठः। ४ 'पठ्यन्ते इति ग-पाठः। जाविधः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy