________________
सूत्रं २४] . स्वोपज्ञभाष्य-टीकालङ्कृतम्
१७३ गीयते यस्योदयादुरयं पूज्य उग्रो भोज इक्ष्वाकुरिति तदुच्चैर्गोत्रम् । तथा यदुदयाद् दरिद्रः अप्रज्ञातो गर्हितश्चाण्डालादिस्तन्नीचैर्गोत्रम् । दानादीनां विनमुदयाद् यस्य सोऽन्तराय इति ।
एनमेवार्थ भाष्येण प्रतिपादयतिभा०–सोऽनुभावो गतिनामादीनां यथा नाम विपच्यते ॥ २३ ॥
टी०-सोऽनुभाव इति । अनन्तरप्रस्तुतस्य विपाकस्य तच्छब्देन परामर्शः । अनुभावः कर्मणां सामर्थ्यम् । गतिनामादीनामिति यद् ग्रहणं तदशेषकर्माधारताप्रदर्शनार्थम् । ज्ञानावरणायुदयो भवति गतिजातिशरीरादिवृत्तेर्जीवस्य । अन्यथा त्वसम्भव एवेति । सप्तम्यर्थे षष्ठी। गतिनामादीनां वा सर्वकर्मणां स विपाको भवति, यथा नाम विपच्यते-विपाकमुदयमासादयतीतियावत् ॥ २३ ॥
यदि विपाकोऽनुभावः प्रतिज्ञायते ततस्तत्कर्मानुभूतं सत् किमावरणवदवतिष्ठते, उत निःसारं सत् प्रच्यवते ? उच्यते-पीडानुग्रहावात्मनः प्रदायाभ्यवहृतौ दानादिविकारवनिवर्तते अवस्थानहेत्वभावात् । अस्यार्थस्य प्रतिपादनाय सूत्रम्
सूत्रम्-ततश्च निर्जरा ॥ ८-२४ ॥ . टी०–ततश्चेति विरामार्थत्वात् पञ्चमी । ततो विपाकात् कर्मणो विरमणं परिशटनं भवति ॥ _ भा०–ततश्चानुभावाद् कर्मनिर्जरा भवति । निर्जरा क्षयो वेदनेत्येनर्थान्तरम्, अत्र चशब्दो हेत्वन्तरमपेक्षते । तपसा निर्जरा चेति वक्ष्यते (अ० ९ सू० ३)॥२४॥
टी-ततश्चानुभावादित्यादि भाष्यम् । तस्मादनुभावाद् विपाकलक्षणात् कर्मणो ज्ञानावरणादेर्निर्जरा परिपतनमात्मप्रदेशेभ्यो भवति । निर्जराशब्दार्थमाचष्टे–निर्जरा क्षयो वेदनेति । निर्जरणं निर्जरा, हानिरित्यर्थः । क्षयो-विनाशः कर्मपरिणतेर्विगमः । वेदना रसानुभव आकर्मपरिणामफलपरिणामभोगपरिसमाप्तेः इति धारणा(१) शाटव्यपगमपातप्रच्युत्यादयो निर्जराशब्दार्थाः परिज्ञेयाः । सा च निर्जरा द्विविधा-विपाकजा अविपाकजा वा । विपाक उदयः । उदीरणा त्वविपाकः । तत्राद्या संसारोदधौ परिप्लवमानस्यात्मनः शुभाशुभस्य कर्मणो विपाककालप्राप्तस्य यथायथमुदयावलिकास्रोतसि पतितस्य फलोपभोगादुप
जातस्थितिक्षये या निवृत्तिः सा विपाकजा निर्जरा । यत् पुनः कर्मानिर्जराद्वयस्य
| प्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्ण बलादुदीर्योदया
बलिकामनुप्रवेश्य वेद्यते पनसतिन्दुकाम्रफलपाकवत् सा त्वविपाकजा १ 'भोग' इति ग-च-पाठः । २ 'दात्रादीनां' इति च-पाठः । ३ ‘अन्यथा' इति क-ग-पाठः । ४ 'भवतीति' इति घ-पाठः । ५ 'त्यर्थं ' इति घ-पाठः । ६ 'मनुप्रपद्यते' इति ग-पाठः ।
व्याख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org