________________
१७२ तवार्थाधिगमसूत्रम् ..
[ अध्यायः ८ यथासबख्यमभिसम्बन्धः कार्यः।
" अनुभावांश्च विपर्यासयति तथैव प्रयोगतो जीवः ।
तीवान् वा मन्दान् वा स्वासु प्रकृतिष्वभिन्नासु ॥ ४ ॥ यद् यद् वा मन्दं सत्क्षारीक्रियते हरिद्रया चूर्णम् । वाताऽऽतपादिभिश्च क्षारं मन्दीक्रियेत यथा ॥५॥ तीब्रोऽनुभावयोगो भवति हि मिथ्यात्ववेदनीयस्य ।
सम्यक्त्वे त्वतिमन्दो मिश्रे मिश्रोऽनुभावश्च ॥ ६॥" अत्र प्रतिज्ञातेऽर्थे युक्तिमाह-जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सक्रमो न विद्यते इति । जात्यन्तरस्यानुबन्धनमनुवर्तनं यः करोति पाकस्तस्य यनिमित्त तदन्यजातीयकं भिन्नम् । तथाच दर्शनमोहनीयादीनामास्रवा भिन्ना एव पठिताः प्रवचन इति ॥
भा०--अपवर्तनं तु सर्वासां प्रकृतीनां विद्यते । तदायुष्केण व्याख्यातम् (अ० २, सू० ५२ ) ॥ २२ ॥
टी०- अपवर्तनं त्वित्यादि । सर्वासामेव प्रकृतीनां सम्भवत्यपवर्तनं । द्राधीयस्याः कर्मस्थितेरल्पीकरणमपवर्तनम् । सर्वासामेव प्रकृतीनां तत् सम्भवत्यध्यवसायविशेषात् । तच्च प्राय व्याख्यातमेवेति तत्प्रतिपादनायाह—तदायुष्केण व्याख्यातमिति । तदपवर्तनमायुएककर्मणा द्वितीयेऽध्याये (५२तमे सूत्रे ) व्याख्यातमिति ॥ २२ ॥
विपाकोऽनुभाव इति स्वरूपमात्रमाख्यातम् । सम्प्रति तु यथा विपच्यते कर्म तथा प्रतिपादयन्नाह
सूत्रम् स यथानाम॥ ८-२३ ॥ टी०--स विपाक उक्तलक्षणो यथानाम भवति । यथाशब्देन वीप्सावाचिनाऽव्ययीभावः । यद् यस्य नाम संज्ञान्तरं कर्मणस्तत् तथा नामानुखपमेव विपच्यते, यस्मात् ज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थनिर्देशः । ज्ञानमात्रियते येन तत् ज्ञानावरणम् । यद् विपच्यमानं ज्ञानाभावे विवर्तत इति । इत्थं दर्शनावरणमपि । सामान्योपयोगोपरोध इतियावत् । सुखानुभवः सद्वेद्यम् । दुःखानुभवोऽसद्वेद्यम् । तथा दर्शनमोहचारित्रमोहश्च । दर्शनं तत्त्वार्थश्रद्धानलक्षणं चारित्रं मूलोत्तरगुणभेदं तन्मोहयतीति । आयुर्जीवन-प्राणधारणं यदुदयाद् भवति तदायुः । तांस्तान् गत्यादीन भावान् प्रशस्तानप्रशस्तांश्च नामयति-प्रापयतीति नाम । यदुदयाद् गतिनामाद्यनुभवतीत्यर्थः । तथा प्रतिभेदमपि गति नामयतीति गतिनाम । एवं जातिनामाद्यपीति । गोत्रमिति । 'कै गै शब्दे' (पा० धा०७१६-७१७) गोत्रं संशब्दनं
१ 'तीव्रमन्दान्' इति च-पाठः । २ ' सत्कारी ' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org