________________
सूत्रे २२]
. . स्वोपज्ञभाग्य - टीकालङ्कृतम्
१६९
न्यार्श्वमासः, अबाधा अन्तर्मुहूर्तकालः । संज्वलनलोभस्यान्तर्मुहूर्त काला स्थितिर्जघन्या, अवाधाप्यन्तर्मुहूर्त एव । पुंवेदस्य जघन्या स्थितिरष्टौ वर्षाणि, अबाधा अन्तर्मुहूर्तकालः । हास्यरत्यरतिभयशोकजुगुप्सास्त्रीनपुंसकवेदानां जघन्या स्थितिः सागरोपमभागौ द्वौ पल्योपमासङ्ख्येयभागन्यूनौ, अन्तर्मुहूर्तश्वाबाधा | देवनारकायुषां जघन्या स्थितिः दश वर्षसहस्राणि, अबाधा अन्तर्मुहूर्तकालः । तिर्यग्मनुष्यायुषां जघन्या स्थितिः क्षुल्लकभवग्रहणम्, अबाधा अन्तर्मुहूर्तकाल इति ॥ एवमेतेषां ज्ञानदर्शनावरणमोद्दायुषां कर्मणां यत्रान्तर्मुहुर्तकाला स्थितिस्तत्रेदं सूत्रमुपतिष्ठतेसूत्रम् — शेषाणामन्तर्मुहूर्तम् ॥ ८--२१ ॥
भा०-- - वेदनीय- नाम - गोत्रप्रकृतिभ्यः शेषाणां ज्ञानावरण-दर्शनावरण-मोहनया - ssयुका - न्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहूर्तं भवति ॥ २१ ॥ टी० - वेदनीयेत्यादि भाष्यं सुगममिति ।
भा०—– उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्यामः ॥
टी० - सम्प्रत्यनुभावबन्धविवक्षया आह-उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्याम इति प्रतिज्ञातं तन्निस्तरणायाह
सूत्रम् - विपाकोऽनुभावः ॥ ८--२२ ॥
दी० -- विपाकोऽनुभाव इति । विपचनं विपाकः - उदयावलिकाप्रवेशः । कर्मणां विशिष्टो नामाप्रकारो वा पाको विपाकः - अप्रशस्तपरिणामानां तीव्रः, शुभपरिणामानां मन्दः । यथोक्तकर्मविशेषानुभवनं अनुभावः "कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, सू० ११३) इति वचनात् । अथवाऽऽत्मनाऽनुभूयते येन करणभूतेन बन्धेन सोऽनुभावबन्धः । " करणाधिकरणमोच" (पा० अ० ३, पा० ३, सू० ११७) इति घञ् । अनुशब्दस्य समुदायार्थ प्रदर्शनम् । अनुगतो वा भावोऽनुभाव इति प्रादिसमासः क्रियालोपी । सर्वासां हि प्रकृतीनां फलं विपाकोदयानुभावबन्धाज्जीवस्यानुसमयं कर्मानुभवन मिच्छाऽनिच्छापूर्वकम्। तद्यथा-ज्ञानावरणस्य फलं ज्ञानाभावः दर्शनावरणस्यापि फलं दर्शनशक्त्युपरोध इति । एवं सर्वकर्मणां स्वकार्यबन्धोऽनुभूतिरिति ।
भा०-- सर्वासां प्रकृतीनां फलं विपाकोदयोऽनुभावो भवतीति । विविधः पाको विपाकः, स तथा चान्यथा चेत्यर्थः । जीवः कर्मविपाकमनुभवन् कर्मप्रत्ययमेवाना भोगवीर्यपूर्वकं कर्मसङ्क्रमं करोति ।
डी० – सर्वासां प्रकृतीनामित्यादि भाष्यम् । सर्वासामिति कार्यग्रहणम् । कर्मबन्धस्य फलं विपाकः तस्योदयोऽनुभाव इति पर्यायकथनेन व्याख्या भवति । वेद्यते अवश्यं - भावी विपाकः सर्वस्य कर्मणः । विशब्दार्थमाचष्टे - विविधो- नानाप्रकारः पाको विपाक
·
१ अनुभागबन्ध ' इति ग-पाठः । २ ' बन्धनं ' इति ग-पाठः । ३ ' भवति' इति घपाठः ।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org