SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [ अध्यायः ८ त्वन्तर्मुहूर्तम् । एवमेता नामकर्मणः सप्तपष्टिरुत्तरप्रकृतयः । शेषकर्मणां त्रिपञ्चाशत् । एवं च विंशत्युत्तरं प्रकृतिशतं भवति ॥ सम्प्रति नामप्रकृतीनामेव जघन्या स्थितिरुच्यते । मनुष्यतिर्यग्गतिपश्चेन्द्रियजातिरौ दारिकतैजसकार्मणानि संस्थानपट्कं औदारिकाङ्गोपाङ्गं संहननषट्कं वर्णगन्धरसस्पर्शाः तिर्यग्मनुष्यानुपूज्यौँ अगुरुलधूपघातपराघातोच्छ्वासातपोद्योताः प्रशस्ताप्रशस्ते विहायोगती त्रसस्थावरशुभाशुभसुभगदुभंगसुस्वरदुःस्वरसूक्ष्मवादरपर्याप्तापयोप्तप्रत्येक नामप्रकृतीनां . साधारणशरीरस्थिरास्थिराऽऽदेयानादेयनिर्माणायशसां सागरोपमस्य द्वौ जघन्या स्थितिरवाधाच सप्तभागौ जघन्या स्थितिः पल्योपमासङ्ख्येयभागेन न्यूनौ, अवाधा त्वन्तर्मुहूर्तकालः, देवनरगती आद्यं जातिचतुष्क वैक्रियशरीरं एतदङ्गोपाङ्गं नरकदेवानुपूर्वीणां जघन्या स्थितिः सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागभागेन न्यूनौ, अबाधा कालोऽन्तमुहूतेः । आहारकशरीरे तदङ्गोपाङ्गतीर्थकरनाम्नां जघन्या स्थितिः सागरोपमकोटीकोट्यन्तः, अबाधा त्वन्तर्मुहूर्तकालः । यशाकीर्ते धन्या स्थितिरष्टौ मुहूर्ताः, अबाधा त्वन्तर्मुहूर्तकाल इति, अत्र सूत्रोपनिबन्धः कृतो वाचकेनेति, इतरा तु मध्यमा बहुवक्तव्यत्वादुपेक्षिता। सूत्रम्-नामगोत्रयोरष्टौ ॥ ८-२०॥ भा०-नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥ २० ॥ टी०-नामगोत्रप्रकृत्योरित्यादि भाष्यं गतार्थम् । एवमेतासां नामप्रकृतीनां सप्तषष्टिसंख्यानामुत्कृष्टा जघन्या च स्थितिरुक्लेति । सम्प्रति गोत्रकर्मण उत्तरप्रकृत्योर्जघन्या स्थितिरभिधीयते । नीचैर्गोत्रस्य जघन्या स्थितिः सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्युनौ, अबाधा त्वन्तर्मुहूर्तकालः। उच्चैर्गोत्रस्थितिजघन्येनाष्टौ मुहूर्ताः, अबाधा त्वन्तर्मुहूर्तकाल इति, अत्रापि सूत्रानुप्रवेशः ॥२०॥ पञ्चानां ज्ञानावरणप्रकृतीनां चक्षुरादिदर्शनावरणप्रकृतिचतुष्टय्याः पञ्चानां चान्तराय मा प्रकृतीनां जपन्या स्थितिरन्तर्मुहूर्तकालः, अबाधाप्यन्तर्मुहूर्त एव । दर्शनाउत्तरप्रकृतीनां वरणे निद्रापञ्चकस्य जघन्या स्थितिः सागरोपमस्य त्रयः सप्तभागाः जधन्या स्थितिर- पल्योपमासङ्ख्येयभागेन न्यूनाः । मोहनीयप्रकृतेः मिथ्यात्वस्य सप्त बाधा च। भागाः सागरोपमस्य जघन्या स्थितिः पल्योपमासङ्ख्येयभागेन न्यूनाः। अनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानावरणकषायाणां द्वादशानां चत्वारो भागाः सागरोपमस्य जघन्यास्थितिः पल्योपमासङ्ख्येयभागन्यूनाः। संज्वलनक्रोधस्य जघन्यास्थितिमासद्वयम्,अन्तमुहूर्तश्चाबाधा। संज्वलनमानस्य जघन्या,स्थितिर्मासः अन्तर्मुहूर्तमवाधा। संज्वलनमायाप्रकृतेर्जघ १'षष्टेरुत्कृष्ट ' इति च-पाठः । २ ' चत्वारो भागाः सागरोपमस्य ' इति च-प्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy