SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ सूत्रं १९ म्वोपज्ञभाष्य-टीकालङ्कृतम् १६७ मूलप्रकृतीनामुक्तः सामान्येन स्थितिबन्ध उत्कृष्टः। सम्प्रत्युत्तरप्रकृतीनां प्रत्येकमु त्कृष्टो जघन्यश्वोच्यते सूत्रक्रमाश्रयणेन । तत्रासद्वेद्यप्रकृतेस्त्रिंशत् सागरोसातासातयोः पर ॥ पमकोटीकोट्यः स्थितिः परा, जघन्या सागरोपमस्य सप्तभागास्त्रयः परापरी बन्धौ पल्योपमस्यासङ्ख्येयभागेन न्यूनाः, सद्वेद्यस्य पञ्चदश सागरोपमकोटी कोट्य उत्कृष्टा स्थितिः, पञ्चदशवर्षशतान्यबाधा, जघन्या द्वादशमुहूतों, अबाधाऽन्तर्मुहूर्तम् । अत्रैतत्सूत्रमाह सूत्रम्-अपरा द्धादशमुहूर्ता वेदनीयस्य ॥ ८-१९ ॥ भा०-वेदनीयप्रकृतेरपरा द्वादशमुहूर्ता स्थितिरिति ॥ १९ ॥ . टी०-वेदनीयप्रकृतरित्यादिभाष्यम् । अपरेत्युत्कृष्टापेक्षया जघन्यो " च्यते । अपरा जघन्येत्यर्थः । कथं मध्यमा नेति चेत् व्याख्याविशेषाददोषः। अधरेति वा सूत्रपाठः । अपरेति(?) स्पष्टमेव सूत्रमधीयते-जघन्या द्वादशमुहूर्तेति ॥ १९॥ सम्प्रति नामगोत्रयोरुत्तरप्रकृतीनां स्थितिरुच्यते । तत्र नामप्रकृतीनां तावत् मनुष्यगतिमनुष्यगत्यानुपूर्योरुत्कृष्टः स्थितिबन्धः पञ्चदश सागरोपमकोटीकोट्यः पञ्चदशवर्षशतान्यवाधा, नरकगतिः तिर्यग्गतिरेकेन्द्रिया जातिः पञ्चेन्द्रियजातिः औदारिक-वैक्रिय-तैजसकार्मणशरीराणि हुण्डसंस्थानं औदारिकाङ्गोपाङ्गं वैक्रियाङ्गोपाङ्गं च वज्रसंहननं वर्णगन्धरसस्पर्शनरकानुपूर्वीतिर्यगानुपूर्वीअगुरु लघूपघातपराघातोच्छासातपोद्योताप्रशस्तविहायोगवित्रस __ स्थावरवादरपर्याप्तप्रत्येकशरीरास्थिरासुभगदुर्भगदुःस्वरानादेयायशःकीनामकोत्तरप्रक- तिनिर्माणनाम्नामुत्कृष्टस्थितिबन्धो विंशतिः सागरोपमकोटीकोव्यः तीनामुत्कृष्टा स्थितिरबाधा च 'च वर्षसहस्रद्वयमबाधा। देवगतिर्देवगत्यानुपूर्वी समचतुरस्रसंस्थानं वज्रर्ष भनाराचसंहननं प्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशाकीर्तीनां दश सागरोपमकोटीकोट्यः परा स्थितिः देश वर्षशतान्यबाधा । न्यग्रोधसंस्थानवज्रनाराचसंहननयोादशसागरोपमकोटीकोट्यः परा स्थितिः द्वादश वर्षशतान्यबाधा । साचिसंस्थाननाराचसंहननयोश्चतुर्दशसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यवाधा । कुब्जसंस्थानार्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडश सागरोपमकोटीकोव्यः षोडश वर्षशतान्यबाधा । वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापयोतसाधारणनाम्नां चोत्कृष्टा स्थितिरष्टादश सागरोपमकोटीकोट्या, अष्टादश वर्षशतान्यबाधा, आहारकशरीर एतदङ्गोपाङ्गतीर्थकरनाम्नामुत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः अबाधा १ 'श्रयणात्' इति ग-पाठः । २ रुक्त' इति ङ-पाठः । ३ स्थितिबाधा' इति च-पाठः । ४ 'द्वादश' इति च-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy