SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ १६६ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ८ भा०-आदितस्तिमृणां कर्मप्रकृतीनां ज्ञानावरण-दर्शनावरण-वेद्यानाम् अन्तरायप्रकृतेश्च त्रिंशत् सागरोपमकोटीकोट्यः परा स्थितिः ॥ १५ ॥ टी०-ज्ञानदर्शनावरणवेद्यानामन्तरायकर्मणश्चैषा स्थितिः-अवस्थानं बन्धकाझानावरणीयादि- लात् प्रभृति यावदशेषं निर्जीर्णमित्येष स्थितिकालः । एवमासां चतसृणां प्रकृतीनामवाधा- मूलप्रकृतीनां उत्कृष्टः स्थितिबन्ध उक्तः। वर्षसहस्रत्रितयं चावाधा काला कालः । बाधाकालस्तु यत्प्रभृति ज्ञानावरणादिकर्म उदयावलिकाप्रविष्टं यावच्च निःशेषमुपक्षीणं तावद् भवति, तच्चोदयावलिकां प्रविशति बन्धकालादारभ्य त्रिषु वर्षसहस्रेष्वतीतेषु, स खल्ववाधाकालो यतस्तत् कर्म नानुभूयते तावन्तं कालमिति ॥ १५ ॥ अथ मोहनीयकर्मप्रकृतेः कियान स्थितिबन्ध इति तदभिधानायाह-- सूत्रम्-सप्ततिर्मोहनीयस्य ॥ ८-१६ ॥ भा०-मोहनीयस्य कर्मप्रकृतेः सप्ततिसागरोपमकोटीकोव्यः परा स्थितिः ॥ १६ ॥ टी-सप्ततिर्मोहनीयस्येति । सागरोपमकोटीकोव्य इत्यनुवर्तते। ताः सप्ततिसंख्ययो सम्बध्यन्ते । मोहनीयेत्यादिना एतदेव स्पष्टतरं विवृणोति, प्रतिपादितार्थ चैतद् भाष्यमिति । अस्यास्त्वबाधाकालः सप्त वर्षसहस्राणि । ततःपरं बाधाकालो यावदशेष क्षीणमिति ॥ १६ ॥ नामगोत्रमूलप्रकृत्योः स्थितिप्रतिपादनायाह सूत्रम्-नामगोत्रयोविंशतिः ॥ ८-१७ ॥ भा०-नामगोत्रप्रकृत्योविंशतिः सागरोपमकोटीकोट्यः परा स्थितिः॥१७॥ टी०-नामकर्मणो गोत्रकर्मणश्चविंशतिः सागरोपमकोटीकोट्यः परा स्थितिरिति । नामगोत्रेत्यादिना भाष्येण स्पष्टीकृत एषोऽर्थः। अस्याप्यबाधाकालो वर्षसहस्रद्वयमिति ॥ १७॥ आयुष्कोत्कृष्टस्थितिप्रतिपादनायाह सूत्रम्-त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य ॥ ८-१८॥ भा०-आयुष्कप्रकृतेस्त्रयस्त्रिंशत् सागरोपमाणि परा स्थितिः ॥ १८ ॥ टी०-त्रयस्त्रिंशदित्यादि । त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि। त्रयस्त्रिंशद्वचनात् कोटीकोव्य इति निवृत्तम् । पूर्वकोटित्रिभागश्वावाधाकालः । आयुष्कप्रकृतेरित्यादि भाष्यं सुज्ञानमेव ॥ १८ ॥ १ "एवमेतासां ' इति च-पाठः । २ . ०यकर्म० ' इति घ-पाठः । ३ 'याऽभिसम्ब० ' इति ग-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy