________________
सूत्रं १५ ]
स्कोपज्ञभाष्य-टीकालङ्कृतम्
१६५
स्त्री-वस्त्र-शयना - Ssसन - भाजनादिरूपो भोगः । पुनः पुनरुपभुज्यते हि सः । पौनःपुन्यं चोपशब्दार्थः । स सम्भवन्नपि यस्य कर्मण उदयान परिभुज्यते तत् कर्म उपभोगान्तरायाख्यम् । वीर्यमुत्साहः चेष्टा शक्तिरिति पर्याशः । तत्र कस्यचित् कल्पस्याप्युपचितवपुषोऽपियूनोsपप्राणता यस्य कर्मण उदद्यात् स वीर्यान्तराय इति । उक्तलक्षणस्य वीर्यान्तरायस्य सामस्त्येनोदयः पृथिव्यप्तेजोवायुवनस्पतिषु क्षयोपशमजनिततारतम्यात् । द्वीन्द्रियादेस्तु वृद्धिं वीर्यस्य यावद्धि चरमसंयच्छास्थ इति प्रकर्षापकर्षविशेषोपलब्धेः । उत्पन्न केवले तु भगवत सर्ववीर्यान्तरायक्षयः । तत्र तु निरतिशयं वीर्यमिति । अत्र चाष्टानामपि कर्मणामुत्तरप्रकृतीनां विंशत्युत्तरं प्रकृतिशतं भवति -बन्धं प्रतीत्य एतावत्यः प्रकृतयो बध्यन्ते, सम्यक्त्वसम्यग्मिथ्यात्वयोर्वन्ध नास्ति । मिथ्यादर्शनपुद्गलानामेव तथा परिणामातु, ताभ्यां सह द्वाविंशत्युत्तरं प्रकृतिशतम् । ताचेमा ः— ज्ञानावरणं पञ्चभेदम् अन्तरायं च दर्शनावरणं नवधा, वेद्यं द्विधा गोत्रं च, मोहोऽष्टाविंशतिभेदः, आयुश्चतुर्धा, नामकर्मणि गतिश्चतुर्विधा आनुपूर्वी च, जातिनाम पञ्चविधं, शरीरनाम च, बन्धनसङ्घातनाम्नोः शरीरनामान्तर्गतत्वान्न प्रकृतिगणना, संस्थाननाम षोढा संहननं च अङ्गोपाङ्गं त्रिधा, विहायोगतिर्द्विधा, वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छ्रासातपोद्योतत्र सस्थावरवादरसूक्ष्मपर्याप्तापर्याप्तिप्रत्येकशरीर साधारणशरीरस्थिरास्थिरशुभाशुभसुभगादुर्भगसुस्वरदुः स्वरादेयानादेययशोनामायशोनाम निर्माणनामतीर्थकरना मान्येकभेदानि भवन्ति ॥ १४ ॥
इत्थं प्रकृतिबन्धनिरूपणमभिधाय स्थितिचन्धमभिधेयतयोपक्रममाण आह-भा०– उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्यामः ।
aro० उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्याम इति । प्रकृतिबन्धो यथावदभिहितः । सम्प्रति स्थितिबन्धमभिधास्याम इति प्रतिजानीते भाष्यकारः । तदभिधित्सया चेदमाह -
सूत्रम् - आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ ८-१५ ॥
ढी० - आदित इत्यादि सूत्रम् । आदावादितः औपसंख्यानिकस्तसिः । आद्यादिभ्यस्तसिर्वाच्यः । तिसृवचनमन्यमूलप्रकृतिव्युदासार्थम् । ततश्वान्यप्रकृत्य सम्प्रत्येयान्तरायवचनमन्तरस्थित्य विलङ्घनार्थम् । सामान्यस्थित्यर्थमित्यर्थः । चशब्देनान्तरायस्य समुच्चयः । सागरकोटीनां च कोट्यः । परेति प्रकृष्टा, मध्यमजघन्य स्थितिनिरासः । स्थितिवचनं प्रतिज्ञातोपसंहारार्थम् । आदितस्तिसृणामित्यादिभाष्येणानुमर्थ प्रतिपादयति
१' समयस्थ ' इति च - पाठः । २ ' परिणतेः ' इति ङ-च-पाठः ।
सूत्रगतशब्दप्र योजनानि
Jain Education International
For.Private & Personal Use Only
www.jainelibrary.org