________________
१७० तत्त्वार्थाधिगमसूत्रम् .
[ अध्यायः ८ उच्यते। तद्वैविध्य 'निरूपयति-तथा चान्यथा चेत्यर्थः । यथा येनाध्यवसायप्रकारेण यादृग्भावं बद्धं कर्म तत् तथा तेनैव प्रकारेण विपच्यते अन्यथा च, प्रकारान्तरेणापीत्यर्थः । अनुभावो विपाको रस इति पर्यायाः । स च तीवमन्दमध्यमावस्थाभेदः शुभश्चैककः । तत्र कदाचिच्छुभमप्यशुभरसतयाऽनुभूयते, अशुभं च शुभरसतयेति वैविध्यार्थः । तथा चाह
" तासामेव विपाकनिबन्धो यो नामनिर्वचनभिन्नः।
स रसोऽनुभावसंज्ञस्तीवो मन्दोऽथ मध्यो वा ॥ १॥" तत्र चाष्टप्रकारे कर्मणि किश्चित् कर्म पुद्गलेष्वेव विपच्यते, तत्पुद्गलान् परिणमयति नानाप्रकारेण, किश्चिद् भवविपाकि प्राप्तजन्मन आत्मनः शरीरवतो विपच्यते । अपरं तु क्षेत्रविपाकि, क्षेत्रान्तरे विपच्यत इत्यर्थः । अन्यज्जीवविपाकीति, जीव एव विपच्यते इति । एवं चतुर्धा विपच्यते । तथा चाह
"संहननं संस्थानं वर्णस्पर्शरसगन्धनामानि ।
अङ्गोपाङ्गानि तथा शरीरनामानि सर्वाणि ॥१॥ केषाश्चित् कर्मणां अगुरुलघुपराघातोपघातनामातपोद्योतनामानि । पुद्गलादिषु विपचनम् प्रत्येकशरीरस्थिरशुभनामानीतरैः सार्धम् ॥ २॥
प्रकृतय एताः पुद्गलपाका भवपाकमुक्तमायुष्कम् ।
क्षेत्रफलमानुपूर्वी जीवविपाकाः प्रकृतयोऽन्याः ॥३॥" कथं पुनरन्यथा बन्धोऽन्यथा विपाकरूपो रस इति प्रतिपादनायाह-जीवः कर्मविपाकमनुभवनित्यादि । स्थित्युत्पत्तिव्ययपरिणाम्यात्मा कर्मणो ज्ञानावरणादिकस्य विपाक भुञ्जानो रसमनुभवन-वेदयमानः प्रकृतीनां सङ्क्रमं करोति । स च सक्रमः कर्मप्रत्ययःकर्महेतुक एव, निर्निमित्तो यः स्यादनाभोगो हि ज्ञानावरणोदयः । अनाभोगवीर्यपूर्वकर्मसइक्रमोऽमिसम्बध्यते। करोति क्रियते आभुजत:-अध्यवस्यतश्चेष्टाऽऽत्मनो या तदामोगवीर्यमनामुञ्जतोऽनध्यवस्यतः सामर्थ्य विशिष्टक्रियापरिणामः अनाभोगवीर्य तत्पूर्वकं-तदद्वारकं कर्मसक्रमं विधत्ते । स पुनः सक्रमः कामु प्रकृतिषु कासां वा प्रकृतीनामित्याह - ___भा०-उत्तरप्रकृतिषु सर्वासुमूलप्रकृत्यभिन्नासु, नतुमूलप्रकृतिषु सक्र. मो विद्यते, पन्धविपाकनिमित्तान्यजातीयकत्वात् ।
टी-उत्तरप्रकृतिष्वित्यादि । मूलप्रकृत्यपेक्षया उत्तरप्रकृत्यभिधानम् । अष्टौ मूलप्रकृतयो ज्ञानावरणादिकाः । उत्तरप्रकृतयस्तु पञ्चभेदं ज्ञानावरणमित्यादिकाः । तत्रोतरप्रकृतीनामेवोत्तरप्रकृतिषु सक्रमः । सर्वास्वित्युत्सर्गः । कासाश्चिन्न भवतीत्यपीत्यर्थः । अपवदिष्यते चोपरिष्टात् । पञ्चप्रकारं ज्ञानावरणं चक्षुर्दर्शनावरणादिप्रकृतिष्वप्पविशेषेण
१ 'दर्शयति' इति ग-पाठः । २ 'नाना' इति च-पाठः । ३ 'अपि वदिष्यते ' इति -पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org