________________
१६२ तत्वार्थाधिगमसूत्रम्
। अध्यायः ८ तरत्वादिति । आहारपर्याप्तेः शरीरपर्याप्तिः सूक्ष्मतरा बहुतरसूक्ष्मद्रव्यनिचयघटिता । ततोऽपीन्द्रियपर्याप्तिः सूक्ष्मतरा । तस्या अपि प्राणापानपर्याप्तिः। ततोऽपि वाक्पर्याप्तिः। ततश्च मनःपर्याप्तिः सुसूक्ष्मेति । तच्चोत्तरोत्तरसूक्ष्मत्वं दृष्टान्तेन भावयति-सूत्रदार्वादिकर्तनघटनवदिति । स्थूलसूत्रकर्तिका सूक्ष्मसूत्रकर्तिका च ते कर्तनं युगपदारभेते । तत्र स्थूलसूत्रकर्तिका चिराय क्रुक्कुटकं पूरयति । इतरा त्वाशु परिसमापयति । दारुघटनेऽप्येष एव क्रमः । स्तम्भादीनां स्थूलरूपनिर्वर्तनं समचतुरस्रादि स्वल्पेन कालेन क्रियते, स एव स्तम्भः कुहिमपत्रच्छेद्यपुत्रिकासङ्घाटकयुक्तश्चिरेण निष्पाद्यते तुल्यकालेऽपि प्रारम्भे । आदिशब्दाचित्र-पुस्तलेप्यकादिपरिग्रहः । यथासङ्ख्यं च निदर्शनानीति ॥
अनेन षण्णामपि पर्याप्तीनां क्रमेण षभिरेव दृष्टान्तैः स्वरूपमुपक्रमते । अतो दृष्टान्तस्वरूपप्रतिपादनायाह
भा०-गृहदलिकग्रहणस्तम्भस्थूणाद्वारप्रवेशनिर्गमस्थानशयनादिक्रियानिवर्तनानीति। पर्याप्तिनिवर्तकं पर्याप्तिनाम, अपर्याप्तिनिवर्तकमपर्याप्तिनाम, (अप. सिनाम) तत्परिणामयोग्यदलिकद्रव्यमात्मनोपात्तमित्यर्थः ॥
टी०-गृहदलिकग्रहणेत्यादि । तत्र गृहदलिकग्रहणेनाहारपर्याप्तिं साधयति । गृहं कर्तव्यमिति सामान्येन दलिकमादत्ते शाकादिकाष्ठम् । ततः सामान्योपात्ते दलिकेऽत्र स्तम्भः स्थूणा वा भविष्यतीति निरूप्यते । एवमनेकपुद्गलग्रहणे सत्यत्रामी शरीरवर्गणायोग्याः पुद्गलाः शरीरनिष्पादनक्षमा इति शरीरपर्याप्तिः । भित्याधुच्छ्रायरूपगृहालोचनायामपि सत्यां कतिद्वारमिदं प्रामुखमुदङ्मुखं वा प्रवेशनिर्गमनार्थमालोच्यते, तथेन्द्रियपर्याप्ति. रप्यात्मन उपयोगवृत्त्या प्रवेशनिर्गमनद्वारस्थानीयेति । एवं प्राणापानभाषापर्याप्ती अपि एतेनै व निदर्शनेन साध्ये । दार्शन्तिकभेदात् तु दृष्टान्तभेदः। ततः सद्वारकेऽपि निष्पन्ने समनि अत्रासनमत्र शयनीयमत्र भुजिभूरिति स्थानशयनादिक्रियानिवर्तनमालोचयन्ति गेहिनः, तद्वन्मनःपर्याप्तिरपि हिताहितप्राप्तिपरिहारापेक्षालक्षणेति । एवमेताः षट् पर्याप्तीर्यन्निवर्तयति तत कम पर्याप्तिनाम, आपाकप्रक्षिप्तनिवृत्तघटवत् । अपयोप्तिनाम तु अनिष्पन्नध्वंस्यनिष्पन्नघटवदिति । एतदुक्तं भवति-यस्योदये पर्याप्तयो नासादयन्ति परिपूरिमतामपर्याप्त एव म्रियते, कदाचिद् वा विनापि भवति यथा सम्मृच्छेनजमनुष्यादिरिति ॥
भा०-स्थिरत्वनिर्वतकं स्थिरनाम । 'विपरीतमस्थिरनाम ॥
टी०-स्थिरत्वनिवर्तकं स्थिरनाम । यस्योदयाच्छरीरावयवानां स्थिरता भवति शिरोऽस्थिदन्तादीनां तत् स्थिरनाम । अस्थिरनामापि शरीरावयवानामेव । यदुदयादस्थिरता
१ ‘सूत्रा-' इति ङ-पाठः । २ धनुश्चिनान्तर्गतो घ-पाठः । ३ ‘स्थापयतीति' इति ङ-पाठः । ४ 'हारोपेक्षा' इति च-पाठः । ५ 'घृतघटवत् ' इति ङ-पाठः । ६ ‘तदेतद्विपरीत०' इति ग-पाठः । ७ 'शिरोमुखदन्ता' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org