________________
१६१
सूत्रं १२]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-शरीरेत्यादि । शरीरस्येन्द्रियाणां वाचो मनसः प्राणापानयोश्चागमप्रसिद्धवर्गणाक्रमेण यानि योग्यानि दलिकद्रव्याणि तेपामाहरणक्रिया ग्रहणम्-आदानं तस्याः परिसमाप्तिराहारपयोप्तिः करण विशेषः । अत्र च मनोग्रहणात् परिस्फुटमिन्द्रियग्रहणे न मनसोऽप्युपादानमिति । सामान्येन गृहीतस्य योग्यदलसवातस्थ शरीराङ्गोपाङ्गतया संस्थापनक्रिया-विरचनक्रिया तस्याः पर्याप्तिः शरीरपर्याप्तिः । संस्थापनशब्दार्थप्रकाशनं पर्यायशब्दैरावेदयते-संस्थापनं रचना घटनमित्यर्थः । शरीरवर्गणायोग्यपुद्गलानां प्रतिनियतावयवेनेत्यर्थः।
भा०-त्वगादीन्द्रियनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः । . टी-त्वगिति स्पर्शनेन्द्रियं तदादीन्द्रियं स्पर्शन-रसन-प्राण-चक्षुः-श्रोत्र-मनोलक्षणम् । तंत्र च रूपनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपयोप्तिः ॥ ___ भा०—प्राणापानक्रियायोग्यद्रव्यग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः ॥
टी-प्राणेति । प्राणापानावुच्छ्वासनिश्वासक्रियालक्षणौ तयोर्वर्गणाक्रमेण योग्यद्रव्यग्रहणशक्तिः-सामर्थ्य तन्निर्वर्तनक्रियापरिसमातिः प्राणापानपर्याप्तिः॥ . . भा०-भाषायोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्तनक्रियापरिसमाप्तिर्भाषापयाप्तिः।
टी०-अत्रापि वर्गणाक्रमेणैव भाषायोग्यद्रव्याणां ग्रहणनिसर्गौ तद्विषया शक्तिः-सामर्थ्य तन्निवर्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिरिति ॥
भा०--मनस्त्वयोग्यद्रव्यग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिर्मन:पयाप्तिरित्येके।
टी-मनस्त्वयोग्यानि मनोवर्गणायोग्यानि मनःपरिणामप्रत्यलानि यानि द्रव्याणि तेषां ग्रहणनिसर्गसामर्थ्यस्य निर्वर्तनक्रियापरिसमाप्तिर्मन:पर्यातिरिति । एके वाचार्या भेदेन मनःपर्याप्तिमुपाददते । इन्द्रियपर्याप्ति नोइन्द्रियपर्याप्तिग्रहणेन गृह्णन्ते । इन्द्रियपर्याप्ति व्यतिरेकेण पठन्तीत्यर्थः । न पुनमनःपर्याप्ति केचिदिच्छन्ति केचिनेति ॥
भा०---आसां युगपदारब्धानामपि क्रमेण समासिरुत्तरोत्तरसूक्ष्मतरत्वात सूत्रदादिकर्तनघटनवत् । यथासङ्ख्यं च निदर्शनानि
टी०-आसामित्यादिना षडपि पर्याप्तयः समकमारब्धाःक्रमेण परिसमाप्तिमासादयन्तीति दर्शयति । किं पुनः कारणं वैषम्येग परिनिष्ठायाऽऽसामित्याह-उत्तरोत्तरसूक्ष्म
१ स्वरूप ' इति च-पाठः । २ ' मनश्च' इति ङ-पाठः । ३ र्गस्य पर्याप्तस्य' इति ङ-पाठः । ४ 'र्याप्तिरनिन्द्रिय' इति ङ-पाठः ।
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org