SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ सूत्रं १३] स्वोपज्ञभाष्य टीकालङ्कृतम् १६३ चलता मृदुता भवति कर्णत्वगादीनां तदस्थिरनामेति । तदेतद्विपरीतमस्थिरनामेत्यनेन प्रतिपादितम् ॥ भा०-आदेयभावनिर्वर्तकं आदेयनाम । विपरीतमनादेयनाम ॥ टी०-गृहीतवाक्यत्वादादरोपजननहेतुतां प्रतिपद्यते उदयावलिकाप्रविष्टं सत् । एतदुक्तं भवति-यस्योदयेन नामकर्मोदयस्तेनोक्तं प्रमाणं क्रियते यत् किञ्चिदपि दर्शनसमनन्तरमेव चाभ्युत्थानादि लोकाः समाचरन्तीत्येवंविधविपाकमादेयनाम । विपरीतमनादेयनाम । युक्तियुक्तमपि वचनं यदुदयान प्रमाणयन्ति लोकाः, न चाभ्युत्थानाधर्हणाहस्यापि कुर्वन्ति तदनादेयनाम । अथवा आदेयता-श्रद्धेयता दर्शनादेव यस्य भवति स च शरीरगुणो यस्य विपाकाद् भवति तदादेयनाम । तेद्विपरीतमनादेयनामेति ॥ भा०—यशोनिर्वर्तकं यशोनाम, तद्विपरीतमयशोनाम । ___टी०-यशः-प्रख्यातिः कीर्तिः लोके गुणोत्कीर्तना प्रशंसना यदुदयात् तद् यशोनाम । तद्विपरीतं अयशोनाम । दोषविषया प्रख्यातिरयशोनामेति ॥ भा०-तीर्थकरत्वनिर्वतकं तीर्थकरनाम ॥ टी-तीर्थकरत्वेति । यस्य कर्मण उदयात् तीर्थ दर्शनज्ञानचरणलक्षणं प्रवर्तयति यतिगृहस्थधर्म च कथयति आक्षेपसंक्षेपसंवेगनिर्वेदद्वारेण भव्यजनसंसिद्धये सुरासुरमनुजपतिपूजितश्च भवति तत् तीर्थकरनामेति ॥ नामकर्मभेदीख्यानाय नामशब्दनिर्वचनमाचष्टे शब्दार्थप्रतीतये भा०--तांस्तान भावान् नामयतीति नाम । एवं सोत्तरभेदो नामकर्मभेदोऽ. नेकविधः प्रत्येतव्यः ॥ १२ ॥ टी-तांस्तानिति । तांस्तानाभिजात्यादीन् (भावान ) नामयति-अभिमुखीकरोति संसारिणः प्रापयतीति नामोच्यते । एवमित्यादिनोपसंहरति नामकर्मप्रकृतिवक्तव्यं, उक्तेन प्रकारेण सोत्तरभेद इति । गतिश्चतुर्धा जातिः पञ्चप्रकारेत्यादिरुत्तरप्रकृतिभेदः सह तेन नामकर्मभेदोऽनेकविधोऽवसेय इति ॥ १२ ॥ सम्प्रति प्रकृतिबन्धं गोत्रस्याख्यातुमुपक्रमते गोत्रप्रकृती सूत्रम्-उच्चैनीचैश्च ॥ ८-१३ ॥ भा०-उच्चैर्गोत्रं नीचैर्गोत्रं च (द्विभेदं गोत्रम्) । तत्रोचैर्गोत्रं देशजातिकुलस्थानमानसत्कारैश्वर्याद्युत्कर्षनिवर्तकम् । विपरीतं नीचैर्गोत्रं चण्डालमुष्टिकव्याधमत्स्यबन्धदास्यादिनिर्वर्तकम् ॥ १३ ॥ १ 'प्रमीक्रियते' इति च-पाठः । २' विपरीत.' इति ग-पाठः । ३ 'यशोभावनिर्व.' इति ग-पाठः । ४ धनुश्चिनान्तर्गतः पाठो घ-पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy