________________
सूत्र १२
.स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-स्थावरभावनिवर्तक स्थावरनाम | स्थावरमावेत्यादि । स्थावरनाम स्थानशीलं स्थावरं तद्भावः स्थावरत्वं निवर्तयति यत् पृथिव्यम्बुवनस्पत्यादिलक्षणं तत् स्थावरनामकर्म । स्थानशीलत्वं तु स्थावरनामकर्मोदयादेव पृथिव्यम्बुवनस्पतीनाम् । परमार्थतस्तु तत्र स्थावरनामकर्मोदयात् स्थावरत्वं, परि. स्पन्दो भवतु मा वाऽभूत् । एवं च तेजोवाय्वोरपि स्थावरत्वसिद्धिः कर्मोदयादेवेति ।।
भा०-सौभाग्यनिर्वर्तकं सुभगनाम ।
टी०-सौभाग्येत्यादि । कमनीयः सुभगो-मनसः प्रियस्तद्भावः सौभाग्यं तस्य निर्वतकं-जनकं सुभगनाम ।।
भा०-दौर्भाग्यनिर्वतकं दुर्भगनाम ।
टी०-दौर्भाग्येत्यादि । सौभाग्यविपरीतलक्षणं दुर्भगनाम । अनिष्टो मनसो योऽप्रियस्तद्भावो दौर्भाग्यम् । यस्य कर्मण उदयादिति ॥
भा०-सौस्वर्यनिर्वर्तकं सुस्वरनाम । दौःस्वयंनिर्वर्तकं दुःस्वरनाम ।
टी-सौस्वर्येति । येन शब्देनोचरितेनाकर्णितेन च भूयसी प्रीतिरुत्पद्यते तत् सुस्वरनाम । तद्विपरीतं दुःस्वरनाम । यत् तु श्रूयमाणमसुखमावहति तद् दुःस्वरनामेति॥
भा०-शुभभावशोभामाङ्गल्पनिर्वर्तकं शुभनाम । तद्विपरीतनिर्वर्तक अशुभनाम ।
टी-शुभेति । शुभो भावः पूजित उत्तमाङ्गादिस्तजनितः शोभा पूजापुरस्कारः शिरसा पादादिनाऽस्पर्शन माङ्गल्यमिति पवित्रं तन्निवतेक शुभनाम । तद्विपरीतनिर्वतकमशुभनाम । शरीरावयवानामेव हि शुभाशुभता ग्राह्या । यथा पादेन स्पृष्टः क्रुध्यतीति ।।
भा०-सूक्ष्मशरीरनिर्वतकं सूक्ष्मनाम । बादरशरीरनिर्वर्तकं बादरनाम ।।
टी-सूक्ष्मेति । सूक्ष्म-लक्ष्णं अदृश्यं नियतमेव यस्य कर्मण उदयाद् भवति शरीरं पृथिव्यादीनां केषाश्चिदेव तत् सूक्ष्मशरीरनाम । बादरशरीरनिवर्तकं बादरनाम । बादरं स्थल केयाश्चिद् विद्यावतां जीवानामिव यस्य कर्मण उदयात् स्थूलशरीरता मवति तद बादरनामेति, न तु चक्षुह्यतां प्रतीत्यापेक्ष्य सूक्ष्मवादरमिति ॥'
पर्याप्तस्थिरादेययशसां सप्रतिपक्षाणां स्वरूपनिरूपणाय प्रक्रम्यते
भा०- पर्याप्तिः पञ्चविधा । तद्यथा-आहारपर्याप्तिः, शरीरपर्याप्तिा, इन्द्रियपर्यातिः, प्राणापानपर्याप्तिः, भाषापासिरिति । पर्याप्तिः क्रियापरिसमाप्तिः आत्मनः।
१'मनसोऽप्रिय' इति च-पाठः । २ 'भूयसा.' इति च-पाठः। ३ रतेति' इति च-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org