________________
१५८
तत्वार्थाधिगमसूत्रम् ..
[ अध्यायः ८ टी-प्राणापानेत्यादि । ऊर्ध्वगामी समीरणः प्राणः । अधोगतिरपानः । तौ च मृतौ पुद्गलात्मकावित्यत आह-पुद्गलग्रहणसामर्थ्यजनकमिति । प्राणापानावनन्तप्रदेशस्कन्धपुद्गलपरिणामजन्यौ तद्योग्यपुद्गलानां ग्रहणम्-आदानं तस्य सामर्थ्यम्-अतिशयं जनयति यत् तदुच्छ्वासनाम, यस्योदयादुच्छ्वासनिश्वासौ भवतः।
विहायोगतिस्वरूपप्रतिपादनायाहभा०-लब्धिशिक्षद्धिप्रत्ययस्याकाशगमनस्य जनक विहायोगतिनाम ॥
टी०-लब्धिशिक्षझैत्यादि । विहाय:-आकाशः तत्र गतिर्विहायोगतिः। सा द्विधा-शुभा च अशुभा च । तत्र प्रशस्ता हंस-गज-वृषादीनाम् । अप्रशस्ता तूष्ट्र-टौल-शृगालादीनाम् । तत्र लब्धिवादीनां देवत्वोत्पत्यविनाभाविनी । शिक्षया ऋद्धिः शिक्षर्द्धिः तपस्विनां प्रवचनमधीयानानां विद्याद्यावर्तनप्रभावाद् वाऽऽकाशगमनस्य लब्धिशिक्षचिहेतोर्जनक विहायोगतिनामति॥
प्रत्येकशरीरनामनिर्धारणार्थमाहभा०-पृथक्शरीरनिर्वतक प्रत्येकशरीरनाम ॥
टी-पृथक्शरीरनिर्वर्तकमित्यादि । यस्य कर्मण उदयादेकैको जीवः प्रति प्रत्येकैकं शरीरं निवर्तयति तत् प्रत्येकनामैकद्वित्रिचतुःपञ्चेन्द्रियविषयम् । यथा प्रत्येकवनस्पतिजीवो मूल-स्कन्ध-शाखा-प्रशाखा-त्वक-पत्र-पुष्प-फलादिषु पृथक् शरीरं निर्वतयति तथा द्वीन्द्रियादयोऽपीति ।
साधारणशरीरनामाद्या बादरनामपर्यवसाना एकादश प्रकृतीः क्रमेण व्याचष्टे
भा०–अनेकजीवसाधारणशरीरनिवर्तकं साधारणशरीरनाम । त्रसभावनिर्वतकं त्रसनाम ।
टी०-अनेकजीवेत्यादि । अनेकशब्देनानन्तसङ्ख्याग्रहणम् । अनन्तानां जीवानामेकं शरीरं साधारणं किसलयनिगोदवज्रप्रभृति यथैकजीवस्य परिभोगस्तथाऽनेकस्यापि । तदमिन सद् यस्य कर्मण उदयान्निवर्तते तत् साधारणशरीरनाम । तथा त्रसेत्यादि । त्रस्यन्तीति त्रसा-द्वित्रिचतुःपञ्चेन्द्रियलक्षणाःप्राणिनः, यस्मात् तस्य कर्मण उदयात् तेषु परिस्पन्दोञ्जसा लक्ष्यते, स तादृशो गमनादिक्रियाविशेषो यस्य कर्मण उदयाद् भवति तत् प्रसस्वनिर्वतकं त्रसनाम, तदुदये एव गत्यादिक्रिया भवतीति सोऽवधार्यते । गमनं तु तदुदयात् स्वभावाच । तदुदयाद् द्वीन्द्रियादीनां स्वभावात् परमाणु-तेजो-वारवादीनामिति । कमलिनीखण्डादेर्देशान्तर एव गमनश्रवणाद् व्यभिचार इति चेन अधिष्ठातृव्यन्तरानुभावानुग्रहादिति ।
१मधीतानां ' इति उ-पाठः । २ 'विषयाणां' इति उ-पाठः। ३ 'भस्तद्यस्य'. इति उ-पाठः ।। रणनाम' इति ग-पाठः । ५ ' नावधार्यते' इति च-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org