SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ सूत्र'१२] स्कोपज्ञभाष्य-टीकालङ्कृतम् १५७ उपघातनामस्वरूपाख्यानायाहभा०-शरीराङ्गोपाङ्गोपघातकमुपघातनाम । टी-शरीराङ्गोपाङ्गोपघातकमिति । शरीराङ्गानामुपाङ्गानां च यथोक्तानां यस्य कर्मण उदयात् परेनेकधोपघातः क्रियते तदुपघातनाम । मतान्तरं वाशब्देन प्रतिपादयति भा०-स्वपराक्रमविजयाद्युपघातजनकं वा॥ टी०-केचिदेवमुपघातजनकं वा केचिदुपघातनाम व्याचक्षते सूरयः पराक्रमःप्राणो वीर्य, स्वो-निजः पराक्रमः स्वपराक्रमः तस्योपघातं जनयति, समर्थवपुषोऽपि निर्वीर्यतामापादयति स्वविजयं चोपहन्ति । विजितेऽप्यन्यस्मिन् नैव विजित इति व्यपदेशहेतुतां प्रतिपद्यत इति । आदिग्रहणादन्यदपि यदुद्भूतं कर्म तत् तस्योदयेनोपहन्यत इति । पराघातस्वरूपं निरूपयति-- भा०-परत्रासप्रतिघातादिजनक पराघातनाम ॥ टी-परत्रासेत्यादि । यस्य कर्मण उदयात् कश्चिद् दर्शनमात्रेणैवोजस्वी वाक्सौष्ठवेनान्यां सभामप्यभिगतः सभ्यानामपि त्रासमापादयति परप्रतिभाप्रतिघातं वा करोति तत् पराघातनाम । आदिग्रहणात् संक्षोभदृष्टिगतिस्तम्भनपरिग्रहः ॥ आतपनामनिरूपणायाहभा०-आतपसामर्थ्यजनकमातपनाम ॥ टी-आतपसामर्थ्यजनकमिति । आतपतीत्यातपः । कर्तर्यच् । आतप्यते वाऽनेनेति आतपः । पुंसि संज्ञायां घः। तस्यातपस्य सामर्थ्य-शक्तिरतिशयो येन कर्मणोदितेन जेन्यते तदातपनाम । आङो मर्यादावचनत्वात् सहस्रांशुमण्डलपृथिवीकायपरिणाम एव तद् विपच्यते, नान्यत्रेति ॥ उद्दयोतनामस्वरूपप्रतिपादनायाहभा०-प्रकाशसामर्थ्यजनकमुद्दयोतनाम ॥ टी-प्रकाशसामर्थ्यजनकमुद्दयोतनामेति । उद्दयोतनमुद्दयोतः-प्रकाशोऽनुष्णः खद्योतकादिप्रभावः । सप्तार्चिःसवितृमण्डलासम्भवि, यस्मादग्नेरुष्णः स्पर्शो लोहितं रूपम् , अतः प्रकाशस्य सामर्थ्यम्-अतिशयं जनयति यत् तदुद्दयोतनाम । उच्छ्वासनामस्वरूपमाचष्टेभा०-प्राणापानपुद्गलग्रहणसामर्थ्यजनकमुच्छासनाम ॥ १. उत्पत्तेरनेकधा ' इति ङ-पाठः । २ 'प्राणीवीर्याख्यो' इति इ-पाठः । ३ 'कर्तव्यं च ' इति -पाठः । ४ 'हन्येत ' इति अ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy