________________
१५५
सूत्र १२]
खोयज्ञभाष्य-टीकालङ्कृतम् - भा०-स्पर्शनामाष्टविधं कठिननामादि॥रसनामानेकविधं तिक्तनामादि। गन्धनामानेकविधं सुरभिगन्धनामादि ॥ वर्णनामानेकविधं कालनामादि ॥
टी-स्पर्शनामाष्टविधमित्यादि । औदारिकादिषु शरीरेषु यस्य कर्मण उदयात् कठिनादिः स्पर्श विशेषः समुपजायते तत् स्पर्शनामाष्टविधम् । तामष्टभेदतां प्रतिपादयमाह--कठिननामादीति । कर्कश-मृदु-गुरु-लघु-स्निग्ध-रूक्ष-शीतोष्णनामानि । स्वस्थाने वनेकभेदत्वमेषां प्रकर्षापकर्षजनितम् रसनामानेकविधं तिक्तनामादि । रसनामानेकभेदं तिक्त-कटु-कषाया-ऽम्ल-मधुर-लवणाख्यम् । लवणो मधुरान्तर्गत इत्येके । अनेकविधग्रहणं तिक्ताद्यन्तर्भेदप्रतिपादनार्थम् । एवमन्यत्राप्यन्तर्भदा वाच्याः। गन्धनामानेकविधमित्यादि । सुरभिगन्धनामादि शरीरविषयं सौरभं दुर्गन्धित्तं च यस्य कर्मगो विपाकानिवर्तते तद् गन्धनाम । अपरे साधारणं गन्धमाहुस्तदसत् । सुरभिणा दुर्गन्धिना वा भवितव्यं, न साधा
रणः कश्चिदस्तीति। वर्णनामानेकविध कामादि । यस्योदयासाधारण
5 च्छरीरेषु कृष्णादिपञ्चविधवर्णनिष्पत्तिर्भवति तद् वर्णनाम कृष्ण-नील-लोगन्धनिरासः
हित-पीत-शुक्लभेदम् । सर्वाणि चैतानि स्पर्शनामादीनि वर्णनामान्तानि शरीरवर्तिषु पुद्गलेषु विपच्यन्त इति ॥
आनुपूर्वीनामस्वरूपनिरूपणायाह--
भा०—गतावुत्पत्तुकामस्यान्तर्गतौ वर्तमानस्य तदभिमुखमानुपूर्ध्या तत्मापणसमर्थमानुपूर्वीनामेति ॥
___टी०-गतावुत्पत्तुकामस्येत्यादि । गम्यतेऽसाविति गतिरिकाद्युत्पत्तिस्थानम् । तच्च गतिनामकर्मोदयादवाप्यते । तस्यां गतावुत्पत्तुमिच्छतः कर्मसामर्थ्यादात्मनः । अन्तर्गतो वर्तमानस्येति । मनुष्यः 'तिर्यग्यो निवाच्यं यावदुत्पत्तिस्थानं न प्राप्नोति तावदन्तर्गतिः तत्र 'क्तमानस्य कस्यचिजन्मवतश्चानुपूर्वीनामकर्मोदयो भवति । आनुपूर्वी च क्षेत्रसनिवेशक्रमः । "अनुश्रेणि गतिर्जीवानां पुद्गलानां च" (अ०२ सू०२७) इति वचनात् । तत्र यत्कर्मोदयादतिशयेन तद्गमनानुगुण्यं स्यात् तदप्यानुपूर्वीशब्दवाच्यं भवति । तच्चात्मनो गत्यन्तरं गच्छत उपग्रहे वर्तते ऋषभस्येव पयः । सा चान्तगतिद्विविधा-ऋज्वी वक्रा च । तत्र यदा ऋज्या गच्छति समयप्रमाणया तदा पूर्वकर्मैवायुरनुभवन्नानुपूर्वीनामकर्मणैवोत्पत्तिस्थान प्राप्तः पुरस्कृतमायुरासादयति । वक्रगत्या पुनः प्रवृत्तः कूर्परलाङ्गलगोमूत्रिकालक्षणया द्वित्रिचतु:समयमानया वक्रारम्भकाले पुरस्कृतमायुरादते । तदेव चानुपूर्वीनामाप्युदेति । ननु च यथैव गतावृज्व्यां विना आनुपूर्वीनामकर्मणोत्पत्तिस्थानमियति तद्वद् वक्रगत्यामपि कस्मान्नेति ? उच्यते-ऋज्व्यां पूर्वकायुयोपारेणैव गच्छति, यत्र तत्पूर्वकर्मायुः क्षीणं तत्र तस्योदय इत्य
१ 'जातिांच्यस्तुर्यावदु' इति च-पाठः। २ ‘देत्यतिशयेन' इति ग-च-पाठः। ३. ऋजुः वक्रा ' इति - पाठः । ४ 'रन्तंभवमानु' इति ङ-पाठः । ५ ' क्रमेणैवो' इति छ पाठः। . . ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org