SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १५४ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ समचतुरस्रसंस्थानलक्षणाविसंवादिनोऽधस्तात् पुनरुपरितनभागानुरूपास्तस्य नोवयवा इति अत एव न्यग्रोधपरिमण्डलं तदुच्यते । न्यग्रोधाकृतित्वात् न्यग्रोधपरिमण्डलमुपरिविशालशाखत्वादिति । सादिनामस्वरूपं तु नाभेरधः सर्वावयवाः समचतुरस्रलक्षणाविसंवादिनः उपरि तु तदनुरूपाः । सादीति शाल्मलीतरुमाचक्षते प्रवचनवेदिनः। तस्य हि स्कन्धो द्राधीयानुपरितना,म तदनुरूपा विशालतेति । कुब्जनामस्वरूपं पुनः कन्धराया उपरि हस्तपादं च समचतुरस्त्रलक्षणयुक्तं संक्षिप्तविकृतमध्यकोष्ठं च कुब्जम् । वामननाम तु लक्षणयुक्तं ओष्ठग्रीवादि उपरि हस्तपादयोश्च न्यूनलक्षणं वामनम् । हुण्डसंस्थानं तु यत्र पादाद्यवयवा यथोक्तप्रमाणविसंवादिनः प्रायस्तद्भुण्डसंस्थानमिति । तथा चोक्तम् (बृहत्सङ्ग्रहण्याम् गा० १७६) "तुल्लं वित्थरबहुलं उस्सेहबहुलं च मडहकोदं च । हेडिल्लकायमडहं सव्वत्थासंठियं हुडं ॥१॥" भा०-संहनननाम षडूविधम् । तद्यथा-वज्रर्षभनाराचनाम, अर्धवर्षभनाराचनाम, नाराचनाम, अर्धनाराचनाम, कीलिकानाम, सृपाटिकानामेति ॥ टी-संहनननाम षड्विधमित्यादि । अत्र पूर्ववद् व्याख्या । तद्यथेत्यादिना पण्णामपि स्वरूपमाविर्भावयति-वज्रर्षभनाराचेत्यादि, अस्थ्नांबन्धविशेषः संहननं,ऋषभः ____ पट्टः, वज्र-कीलिका, मर्कटबन्धः य उभयपार्श्वयोरस्थिबन्धः स किल अर्धवर्षभनागचः नाराचः । वज्रर्षभनाराचा यत्र संहनने तद् वज्रर्षभनाराचसंहननम् , अस्थना बन्धविशेष इति । अर्धवज्रर्षभनाराचनाम तु वज्रर्षभनाराचानामधं किल सर्वेषां वज्रस्यार्धं ऋषभस्थाधे नाराचस्यामिति भाष्यकारमतम् । कर्मप्रकृतिग्रन्थेषु वज्रनाराचनामैवं पट्टहीनं पठितं, किमत्र तत्वमिति सम्पूर्णानुयोगधारिणः कचित संविद्रते। अर्धग्रहणाद वा ऋपमहीनं व्याख्येयम् । नाराचनाम्नि तु मर्कटबन्ध एव केवलो न कीलिंका न पट्टः । अर्धनाराचनाम्नि त्वेकपाधै मर्कटबन्धः, द्वितीयपार्श्वे तु कीलिकैव मर्कटबन्धाः, अत्रापि कर्मप्रकृती नैवास्ति। कीलिकानाम विना मर्कटबन्धेनास्थो मध्ये कीलिकामात्रम् । मृपाटिकानाम कोटिद्वयसंगते ये अस्थिनी चर्मस्नायुमांसावबद्धे तत् सुपाटिकानाम कीर्त्यते। सृपाटिका-फलसंपुटकं यथा तत्र फलकानि परस्परस्पर्शमात्रवृत्या वर्तन्ते एवमस्थीन्यत्र संहनने । तदेवमेतान्येवंविधास्थिसङ्घातलक्षणानि संहनननामान्यौदारिकशरीर एव संहन्यन्ते, लोहपहनाराचकीलिकाप्रतिबद्धकपाटवदिति ॥ १'नोऽवयवा' इति ङ-पाठः । २ छाया तुल्यं १ विस्तारबहुलं २ उत्सेधबहुलं ३ च मडभकोष्ठं च । ४ अधस्तनकायमडभं ५ सर्वत्रासंस्थितं ६ हण्डम् ॥ ३ 'संचियं' इति ग-पाठः । ४ 'रिणः संविद्रते' इति ग-च पाठः। ५'कीलपट्टः' इति कु-पाठः। ६ 'कीलिमात्र' इति ग-च-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy