________________
१५३
सूत्रं १२]
स्वोपज्ञभाष्य-टीकालङ्कृतम् तनुविशेषरचना भवति तत् सङ्घातनामकर्म, पुद्गलरचनाकारेण विपच्यत इति पुद्गलविपाक्युच्यते । तच्चौदारिकादिभेदात् पञ्चधा, परस्परविभिन्नलेप्यकरचनाविशेषवच्छरीरपरिणाम एव [पलक्ष्यते । स चैवंविधः कर्मभेदो यदि न स्यात् ततः प्रत्यक्षप्रमाणविनिश्चयः पुरुषयोषिद्गवादिलक्षणो नानाशरीरभेदो नैव सम्भाव्येत, सङ्घातककर्मविशेषाभावात् । कारणानुविधायि च कायें लोके प्रतीतम् । सङ्घातविशेषादेव हि पुरुषादिशरीरलक्षणो विभागेन व्यपदेशः । अपिशब्दः सम्भावनार्थः । चशब्दोऽवधारणार्थः। सत्येव बन्धननाम्नि न स्याद् विशेषः। यतः सङ्घातविशेषजनकं प्रचयविशेषात् सङ्घातनाम । सङ्घातविशेषस्य जनकमिति शेलक्षणा षष्ठीति नास्ति समासप्रतिषेधः । स तु प्रतिपदविहितायाः षष्ठयाः प्रतिषेधः प्रचयविशेषादिति । प्रचयविशेषाद्धेतोः पुद्गलानां विन्यासः पुरुषस्त्रीविशेषात्मकः । चशब्दोऽवधारणार्थः । यनिमित्तश्च स विन्यासस्तत् सङ्घातनाम । तत्प्रसिद्धोदाहरणेन भावयन्नाहदारुमृत्पिण्डायःपिण्डसङ्घातवदिति । गद्यबन्धनानुलोम्याचात्र द्विः पिण्डग्रहणम् । दारुमृदय पिण्डवदिति दुरुच्चारं स्यात् , अयोदारुमृत्पिण्डवदिति किं न कृतम् १ अपूतिवचनाः खल्वाचार्याः सकृदभिधाय न निवर्तन्ते, दारुपिण्डवत् मृत्पिण्डवत् अयःपिण्डवच्चेति दृष्टान्तत्रयं सुलभत्वात् प्रतिपत्तश्चातिशायिप्रबोधहेतुत्वात् , दावेवयवसङ्घातो दारुपिण्डः । एवं. मृदवयवसङ्घातो मृत्पिण्डः । तथाऽयोऽवयवानां सङ्घातोऽयःपिण्डः । त एवात्रौदारिकादिशरीरयोग्यपुद्गलाँचेतनेनात्मनाऽऽत्मसात्कृत्य सङ्घातनामकर्मोदयात् परस्परं संहताः सन्तिष्ठन्त इति ॥
संस्थाननामस्वरूपाख्यानायाह- भा०-संस्थाननाम षड्विधम् । तद्यथा-समचतुरस्रनाम, न्यग्रोधपरिमण्डलनाम, सादिनाम, कुब्जनाम, वामननाम, हुण्डनामेति ॥
टी०–संस्थाननाम षड्विधमित्यादि । संस्थितिः संस्थानम्-आकारविशेषः । तेष्वेव बध्यमानेषु पुद्गलेषु संस्थानविशेषो यस्य कर्मण उदयाद् भवति तत् संस्थाननाम, षड्विधं-षट्प्रकारम् । तद्यथेत्यनेन षडपि नामग्राहमाचष्टे-समचतुरस्रनामेत्यादि । समं च तच्चतुरस्रं चेति समचतुरस्त्रम् । यतस्तत्र मानोन्मानप्रमाणमन्यूनमनधिकम्, अङ्गोपाङ्गानि चाविकलानि ऊर्ध्व तिर्यक् च तुल्यत्वात् समं चतुरस्रं चाविकलावयवत्वात् स्वाङ्गुलाष्टशतोच्छायाङ्गोपाङ्गयुक्तं, मुक्तिनिर्मितलेप्यकवद् वा । न्यग्रोधपरिमण्डलनाम्नस्तु नाभेरुपरि सर्वावयवाः
१ ‘जनकावयवा विशेषात् ' इति ङ-पाठः । २ 'स्त्रीशरीरादिकः' इति च-पाठः । ३ 'अपूर्तिवचनाः' इति --पाठः । ४'धायनिव' इति ङ-पाठः। ५ 'यथा मृत्पिण्डस्तथा' इति ग-पाठः । ६ स एवमौदारिकादि । इति च-पाठः। ७ 'श्वतेनात्म' इति ङ-पाठः। ८ 'साचिनाम' इति घ-पाठः। ९ 'ऊर्ध्वतिर्यक्ष्वतुल्य' इति उ-पाठः।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org