________________
१५२
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ८ टी०-अङ्गोपाङ्गेत्यादि । अङ्गान्युपाङ्गानि च यस्य कर्मण उद्यानिवर्त्यन्ते तदङ्गोपाङ्गनाम त्रिविधम्-औदारिक-वैक्रियका-ऽऽहारकभेदात् । तत्राङ्गान्यष्टौ-उरः शिरः पृष्ठमुदरं करौ पादौ च । उपाङ्गानि स्पर्शनमस्तिष्कादीनि । अष्टानामङ्गानामेकैकस्योपाङ्गमनेकप्रकारम् । तत्र शिरोद्रव्यमधिकृत्योपाङ्गानि भाष्यकृत् पपाठ
भा०-तथा मस्तिष्क-कपाल-कृकाटिका-शङ्ख-ललाट-तालु-कपोल-हनुचिबुक-दशनी-छ-भ्रू नयन-कर्ण-नासाङपाङ्गनामानि शिरसः । एवं सर्वेषामङ्गानामुपाङ्गानां नामानि ॥
टी-तथा मस्तिष्केति । मस्तिष्क मस्तुलुङ्गक शिरोऽङ्गस्यारम्भकोऽवयवः पर तथा कपालादयः देशनादयश्च ॥ ननु च धातुमध्येऽधीतं मस्तिष्कं नाङ्गन प्रत्यङ्गमिति कपालादिवदारम्भकत्वान्मस्तिष्कमप्युपाङ्गं शिरसोऽवसेयम् । एवमुर प्रभृत्यङ्गानामप्येकैकस्य वाच्यान्युपाङ्गनामानि ज्वलनजलानिलवसुधावनस्पतिवर्जजीवेषु सम्भवन्ति ॥
भा०-जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनाम ॥
टी०-जातिलिङ्गाकृतीति । जातिरेकेन्द्रियादिलक्षणा पश्चधोक्ता तस्यां जातौ लिङ्गव्यवस्थामाकृतिव्यवस्थां च नियमयति यत्, 'लिङ्गं स्त्रियाः पुंसो नपुंसकस्य च यदसाधारणं, आकार आकृतिः-अवयवरचना तां च, यनिर्मापयति निर्माणनाम तदुच्यते । एतदुक्तं भवति-सर्वजीवानामात्मीयात्मीयशरीरावयवविन्यासनियमकारणं निर्माणनाम प्रासादादिनिर्माणकलाकौशलोपेतवर्धकिवदिति ॥
भा०-सत्यां प्राप्तौ निर्मितानामपिशरीराणां बन्धक बन्धननाम । अन्यथा हि वालुकापुरुषवदनद्धानि शरीराणि स्युरिति ।।
टी-सत्यां प्राप्तावित्यादि । शरीरनामकर्मोदयाद् गृहीतेषु गृह्यमाणेषु वा तद्योग्यपुद्गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणामितेष्वपि परस्परमवियोगलक्षणं यदि बन्धननाम काष्ठजतुवत् न स्यात् ततो वालुकापुरुषवद् विघटेरन् शरीराणि तदेतेन भाष्येण प्रतिपादितम् । औदारिकभेदाश्च पञ्चधा, न च भेदः कृत्यन्तरं शरीरनामकर्मणः । सङ्घातप्रकृतिस्वरूपनिरूपणायेदमाह. भा०–बद्धानामपि च सङ्घातविशेषजनकं प्रचयविशेषात् सङ्घातनाम दारुमृत्पिण्डाय:पिण्डसङ्घातवत् ॥
टी-बद्धानामपि चेत्यादि । बद्धानामपि च पुद्गलानां परस्परं जतुकाष्ठन्यायेन प्रदलरचनाविशेषः सङ्घातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्मण उदयादौदारिक
१ स्निग्धादीनि ' इति ङ-पाठः । २ 'स्पर्शनादयश्च ' इति च-पाठः । ३ 'लिङ्गं त्रिधा पुसो नपुंसकस्य स्त्रियाच ' इति उ-पाठः । ४ तदनन्तरं ' इति उ-पाठः । ५'यः सङ्घातवत्' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org