SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सूत्रं १२] ..स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०–अप्कायिकजातिनामानेकविधम् । तद्यथा-उपक्लेदा-ऽऽवश्याय-नीहार-हिम-धनोदक-शुद्धोदकजातिनामादि ॥ ____टी--अप्कायिकजातिनामानेकविधमित्यादि । तद्यथेत्यादिना निर्दिशति । उपल्लेदो हेरतनुकः भूमेनिर्गत्य तृणाग्रस्थितः । शेषा गतार्था भेदाः॥ __ भा०—तेजाकायिकजातिनामानेकविधम् । तद्यथा-अङ्गार-ज्वाला-लातार्चि-मुर्मुर-शुद्धाग्निजातिनामादि ॥ वायुकायिकजातिनामानेकविधम् । तद्यथा-उत्कलिका-मण्डलिका-झञ्झका-धन-संवर्तकजातिनामादि ॥ वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा-कन्द-मूल-स्कन्ध-त्वक्काष्ठ-पत्र-प्रवाल-पुष्प-फल-गुल्म-गुच्छ-लता-वल्ली-तृण-पर्व-काय-शेवाल-पनक-वलक-कुहनजातिनामादि । एवं द्वीन्द्रियजातिनामैकविधम् । एवं त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजातिनामान्यपि ॥ टी-तेजाकायिकेत्यादि गतार्थम् । द्वि-त्रि चतुः-पश्चेन्द्रियजातिनामानि शङ्खशुक्तिकाद्युपदेहिकापिपीलिकादिभ्रमरसरघादितिर्यग्मनुष्यादिभेदेन वाच्यानि ॥ शरीरनामोत्तरप्रकृतयः पञ्च । तत्प्रतिपादनायाह भा०-शरीरनाम पञ्चविधम् । तद्यथा-औदारिकशरीरनाम, वैक्रियशरीरनाम, आहारकशरीरनाम, तैजसशरीरनाम, कार्मणशरीरनामेति ।। टी-शरीरनामेत्यादि । असारस्थूलद्रव्यवर्गणानिर्मापितमौदारिकशरीरं, तत्प्रायोग्यपुद्गलग्रहणकारणं यत् कर्म तदौदारिकशरीरनामोच्यते । विचित्रशक्तिकद्रव्यनिर्मापितं वैक्रिय, तद्योग्यपुद्गलादानकारणं यत् कर्म तद् वैक्रियशरीरनामाभिधीयते । कारणे कार्योपचारात प्रयोजनप्रसाधनायाहियत इत्याहारकशरीरम् । शेषं पूर्ववत् । तेजोगुणद्रव्यारब्धमुष्णगुणमाहारपरिपाचनक्षम तैजसं शरीरम् । शेषं पूर्ववत् । कुण्डमिव बदरादीनामशेषकर्माधारभूतं समस्तकर्मप्रसवनसमर्थमङ्कुरादीनां बीजमिव कार्मणशरीरम् । इयं चोत्तरप्रकृतिः शरीरनामकर्मणः पृथगेव कमोष्टकाणामुदयभूतादिति ।। भा०--अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा-औदारिकाङ्गोपाङ्गनाम, वैक्रियशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकविधम् । तद्यथा ___ अङ्गनाम तावत् शिरोनाम, उरोनाम, पृष्ठनाम, बाहुनाम, अङ्गाष्टकम् उदरनाम, पादनाम । उपाङ्गनामानेकविधम् । तद्यथा-स्पर्शनाम, रसनाम, घ्राणनाम, चक्षुनाम, श्रोत्रनाम ॥ १ ' हरितनुः ' इति ङ-पाठः । २ 'थन' इति घ-पाठः । ३ 'करण' इति च-पाठः । ४ 'कम' इति च-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy