SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ १५० तत्त्वार्थाधिगमसूत्रम् . . [ अध्यायः ८ भा०-तद्यथा-गतिनाम चतुर्विधम्-नरकगतिनाम, तिर्यग्योनिगतिनाम, मनुष्यमतिनाम, देवगतिनाम ॥ टी०-गतिनाम्नः पिण्डप्रकृतेश्चत्वारो भेदाः नरकगतिनामादयः। तत्र यस्य कर्मण उदयाबारक इति व्यपदिश्यते तन्नरकगतिनाम । एवं तिर्यग्गतिनामादित्रितयमपि वक्तव्यम् ॥ भा०-जातिनाम्नो मूलभेदाः पञ्च । तद्यथा-एकेन्द्रियजातिनाम, दीन्द्रियजातिनाम, त्रीन्द्रियजातिनाम, चतुरिन्द्रियजातिनाम, पञ्चेन्द्रियजातिनाम ॥ टी-जातिनाम्न इत्यादि । जातिनामेति पिण्डप्रकृतिरेकेन्द्रियादिना जातिपञ्चकापेक्षया । एते च मूलभेदाः पञ्च । तद्यथेत्यादिना निर्दिशति, एकेन्द्रियजातिनामेत्यादि। एकं-प्रथममिन्द्रियं जातिः-सामान्यं तदेव नाम,एवं द्वीन्द्रियजातिनामादिचतुष्टयमपि वाच्यम् । एकेन्द्रियजातिनामकर्मोदयादेकेन्द्रिय इति व्यपदिश्यते । एकेन्द्रियसंज्ञाव्यपदेशनिमित्तं एकेन्द्रियजातिनाम, जातिरिति सामान्येन पृथिव्यादिभेदेष्वन्वितत्वात, एकेन्द्रियजातिनामान्तरेणैकेन्द्रियसंज्ञाया अभाव एव स्यात् ॥ भा०-एकेन्द्रियजातिनामानेकविधम् । तद्यथा-पृथिवीकायिकजातिनाम, अप्कायिकजातिनाम, तेजाकायिकजातिनाम, वायुकायिकजातिनाम, वनस्पतिकायिकजातिनामेति ॥ टी०–एकेन्द्रियजातिनामानेकविधमित्यादि । एकेन्द्रियजातयोऽपि पिण्डप्रकृतय एव पृथिवीकायिकादिभेदापेक्षया । तद्यथेत्यादिना निर्दिशति, पृथिवीकायिकजातिनाम पृथिव्येव कायः पृथिवीकायः स एषामस्ति ते पृथिवीकायिकाः तेषां जातिः तदेव नाम पृथिवीकायिकजातिनाम । पृथिवीकायिकजातिनामोदयात् पृथिवीकायिकव्यपदेशः। एवं शेषाणि ॥ ___ भा०-तत्र पृथिवीकायिकजातिनामानेकविधम् । तद्यथा-शुद्धपृथिवीशकरा-वालको-पल-शिला-लवणा-ऽय-स्त्रपु-ताम्र-सीसक-रूप्य-सुवर्ण-वज्र-हरिताल-हिङ्गुलक-मनःशिला-सस्यका-जन-प्रवालका-ऽभ्रपटा-भ्रघालिकाजातिनामादि गोमेदक-रुचकाङ्क-स्फटिक-लोहिताक्ष-जलावभास-वैडूर्य-चन्द्रप्रभ-चन्द्रकान्त-सूर्यकान्त-जलकान्त-मसारंगल्वा-श्मगर्भ-सौगन्धिक-पुलका-ऽरिष्ट-कान-मणिजातिनामादि च ॥ टी-तत्र पृथिवीकायिकेत्यादि । अनेन पुनरपि पृथिवीकायिकजातिनानः पिण्डप्रकृतित्वं दर्शयति । तद्यथेत्यादिना शुद्धपृथिव्यादयो भेदाः प्राग् व्याख्याता नानापुद्गलपरिणामाः पृथिवीकायिकव्यपदेशभाज इति ॥ १' नामेति' इति घ-पाठः। २' सामान्यं पृथि.' इति ग-च-पाठः। ३ 'टलान' इति घ-पाठः । ४ 'नामानि' इति ग-पाठः । ५ ' स्फुटिक' इति घ-पाठः । ६ 'गल्लाश्म ' इति घ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy