________________
सूत्रं १२] स्त्रोपज्ञभाष्य-टीकालङ्कृतम्
१४९ पश्चविधम् । अङ्गोपाङ्गनाम त्रिविधम् । निर्माणनामैकधा । संस्थाननाम षोढा । सङ्घातनाम
पञ्चविधम् । बन्धननाम पञ्चविधं पञ्चदशविधं वा । संहनननाम षोढा । गत्यादिनामकर्म- स्पर्शरसगन्धवर्णनामैकैकविधम् । आनुपूर्वीनाम चतुर्धा । अगुरुलघुनामैपान्तरमद कधा । उपघातपराघातातपोद्योतोच्छासनामान्येकैकविधानि । विहायो
- गतिनाम द्विधा । प्रत्येकशरीरसाधारणशरीरत्रसस्थावरसुभगदुर्भगसुस्वरदुःस्वरशुभाशुभसूक्ष्मवादरपर्याप्तापर्याप्तस्थिरास्थिरादेयानादेययशोऽयशस्तीर्थङ्करनामान्येकैकप्रकाराण्येव । एवमेता उत्तरप्रकृतयो नामकर्मणः सप्तषष्टिः । अत्र च बन्धनसङ्घातनामनी शरीरनामान्तर्भूते एव, अतः शरीरविषयत्वादेव नोत्तरप्रकृतिः। पृथक्सूत्रे यदुपादानं पार्थक्येन तत् तयोः स्वरूपप्ररूपणार्थमिति ॥
भा०-गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाम सङ्घातनाम संस्थाननाम संहनननामस्पर्शनामरसनामगन्धनामवर्णनामआनुपूवनिाम अगुरुलघुनाम उपघातनाम पराघातनाम आतपनाम उद्योतनाम उच्छासनाम विहायोगतिनाम । प्रत्येकशरीरादीनां सेतराणां नामानि । तद्यथा-प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम बादनाम पर्याप्सनाम अपर्याप्सनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थकरनाम इत्येतद् द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवति । उत्तरनामानेकविधम् ॥ ____टी-गतिनामेत्यादि भाष्यम् । तत्र गतिनामेत्येवमादिना भाष्येण इत्येतद् द्विचत्वारिंशबिधं मूलभेदतो नामकर्म भवतीत्येवमन्तेन पिण्डप्रकृतिमात्रमाख्यायते । गतिनाम । नामशब्दः सर्वत्र जातिनामादिष्वपि समानाधिकरणः । आनुपूर्व्यनाम, अन्ये ___ पठन्त्यानुपूर्वीनाम, ततश्च प्रथमपाठे सूत्रमेवम्-आनुपूव्योगुरुलघूपधात इति,
या इतरत्र आनुपूर्व्यगुरुलघूपघात इति । प्रत्येकशरीरादीनां दशानां सेतराणामिति-सप्रतिपक्षाणां साधारणशरीरादीनां दशानां नामानि-अभिधानानि वक्ष्यमाणानि विज्ञेयानि । अथवा प्रत्येकशरीरादीनां पूर्वपदानां सामानाधिकरण्यविवक्षायां नामानीति व्यक्तिविवक्षातो नामशब्द उत्तरपदं भवतीति । तद्यथेत्यादिनोद्देशः सामानाधिकरण्येन, प्रत्येकशरीरनामादिकं अन्ते तीर्थकरनाम प्रकृष्टत्वात् । इतिशब्दः पिण्डप्रकृतीयत्ताप्रदर्शनार्थः। एतदिति नाम यथोक्तं द्विचत्वारिंशद्भेदं भवति सह बन्धनसवातनामभ्याम् । आसां पिण्डप्रकृतीनां सम्प्रति भेदप्रतिपत्तये बभाषे-उत्तरनामानेकविधमिति । उत्तरप्रकृतिनामेत्यर्थः । पिण्डप्रकृतिभेद इतियावत् । तद्यथेत्यादिना निर्दिशति
१ 'सङ्घात. पञ्चदशविधं वा' इति पाठो न विद्यते च-प्रतौ । २ ' मेतेन' इति च-पाठः । ३ 'पृथगपाठि'
इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org