SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आयुषो १४८ तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ८ टी-नारकादीनि कृतद्वन्द्वानि प्रथमावहुवचनेन निर्दिष्टानि । यस्योदयात् प्रायोग्यप्रकृतिविशेषानुशायीभूत आत्मा नारकादिभावेन जीवति यस्य च क्षयान्मृत उच्यते तदायुः । आह च " स्वानुरूपासवोपात्तं, पौद्गलं द्रव्यमात्मनः । जीवनं यत् तदायुष्क-मुत्पादादेस्य जीवति ॥ १॥ आयुषश्चान्नादय उपग्राहकाः प्रथमवद्धस्येति । तस्यैवम्भूतस्य कर्मण उत्तरप्रकृतिचतुष्टयं वर्ण्यते भा०–आयुष्कं चतुर्भेदम्-नारकं, तैर्यग्योनं, मानुषं, दैवमिति ॥ ११॥ टी-आयुष्कं चतुर्भेदमित्यादि भाष्यम् । आनीयन्ते शेषप्रकृतयस्तस्मिन्नुप भोगाय जीवेनेत्यायुः, शाल्योदनादिव्यञ्जनविकल्पा एव कांस्यपात्राधारव्युत्पत्त्यर्थः भोक्तुः परिभोगाय कल्प्यन्ते, आनीयते वाऽनेन तद्भवान्तर्भावी प्रकृतिगण - इत्यायुः रज्जुबद्धेक्षुयष्टिभारकवत् , आयतते वा शरीरधारणं प्रति बन्ध इत्यायुर्निगडादिवत् । आयुरेवायुष्कम्, चतुर्गतिकत्वात् संसारस्य चतुर्भेदम् । तद्भेददर्शनार्थमाह-नारकमित्यादि । तत्र नरका उत्पत्तियातनास्थानानि पृथिवीपरिणतिविशेषास्तसम्बन्धिनः सत्त्वा अपि तात्स्थ्यानरकास्तेषामिदमायुनारकम् । तिर्यग्योनय एक-द्वि-त्रि-चतु:पश्चेन्द्रियास्तेषामिदं तैर्यग्योनम् । मनुष्याः संमूर्छन-गर्भजास्तेषामिदं मानुषम् । देवानां भवनवास्यादिभेदानामिदं दैवम् । इतिशब्दः आयुःप्रकृतीयत्ताप्रतिपत्तये ॥ ११ ॥ सम्प्रति नामकर्मोत्तरप्रकृतिभेदाख्यानायाहसूत्रम्-गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसँवातसंस्थानसं हननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपराघातातपोद्योउत्तरप्रकृतयः तोच्छासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसू. क्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च ॥८-१२॥ टी०-गतिजातीत्यादिप्रागुद्दिष्टा द्वाचत्वारिंशत् पिण्डभेदा नामकर्मणस्तत्प्रतिपाद नार्थ सूत्रम् । नमयति-प्रापयति नारकादिभावान्तराणि जीवमिति नाम । नामशब्दस्य. अथवा जीवप्रदेशसम्बन्धिपुद्गलद्रव्यविपाकसामोद् यथार्थसंज्ञा । व्युत्पत्त्यर्थाः " नमयति-प्रहयेतीति नाम यथा शुक्लादिगुणोपेतद्रव्येषु चित्रपटादिव्यपदेशप्रवृत्तिर्नियतसंज्ञाहेतुरिति । तत्र गतिनाम चतुर्विधम् । जातिनाम पञ्चविधम् । शरीरनाम १ सहायीभूत' इति च-पाठः । २ 'यस्य ' इति ङ-च-पाठः। ३ ‘बद्ध ' इति ड-पाठः । ४' सङ्घातन...स्पर्शनरस' इति ग-पाठः । ५ 'प्रज्वलयति' इति ङ-पाठः । ६ 'पञ्चविधं ' इति -पाठः । नामक Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy