________________
सूत्रं ११] . स्वोपज्ञभाष्य टीकालङ्कृतम्
१४७ भा०-तस्यास्य लोभस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा-लाक्षारागसदृशः, कर्दमरागसदृशः, खञ्जनरागसदृशः, हरिद्रारागसदृश इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनव्याख्याते ॥
टी०-लाक्षारागसदृश इत्यादि। अनन्तानुबन्ध्यादयः क्रमेण योज्याः । शेषं गतार्थम् ॥
भा०-एषां क्रोधादीनां चतुर्णा कषायाणां प्रत्यनीकभूताः प्रतिघातहेतवो क्रोधादीनां सच- भवन्ति । तद्यथा-क्षमा क्रोधस्य, मार्दवं मानस्य, आर्जवं रणोपायाः मायायाः, सन्तोषो लोभस्येति ॥१०॥
टी०-एषां क्रोधादीनामित्यादि । प्रकृतानुपयोगित्वादसम्बद्ध इवायं लक्ष्यते ग्रन्थः । मोहनीयोत्तरप्रकृतिस्वरूपाख्यानमारब्धं, तत्र क्रोधादिप्रत्यनीकाः क्षमादय इति का प्रस्तावः ? । उच्यते-मोहनीयप्रधानानि हि कर्माणि, सर्वदेशोपघातद्वारेण जन्तोनरकादिभवप्रपञ्चप्रापणे विजृम्भन्ते । मोहस्तत्र तावत् कषायजनितः । कषायवशाद्धि बन्धस्थितिविशेषः सर्वदुःखावाप्तिश्च । यथोक्तम् ( उपदेशमालायाम् )
" जे अइदुक्खं लोए जं च सुहं उत्तमं तिहुयणमि ।
तं जाण कसायाणं वुढिक्खयहेउयं सव्वं ॥१॥" अतस्तत्संवरणोपायभूताः क्षमादयो भाष्यकारेणोपन्यस्ताः सततमेतेऽभ्यसनीयाः कर्मणां लाघवमिच्छता मुमुक्षुणा । भाष्यं गतार्थप्रायम् । प्रत्यनीकाः शत्रव उच्यन्ते पुरुषाः । भूतशब्द उपमानार्थः । शत्रव इवोच्छेदनसाधात् । एतदेव स्पष्टयति-प्रतिघातहेतवो भवन्तीति । अत्र च मिथ्यादर्शनमाद्यकषायाश्च द्वादश सर्वघातिन्यः प्रकृतयः सवलन
नोकषायास्तु देशघातिन्यः ॥ ननु च सूचनात् सूत्रमिति लघु विधेयं सूत्रलाघव
सूत्रम् । तच्चैवं भवति-दशेनचारित्रमोहनीयकषायनोकषायवेदनीयाख्या परामर्शः
द्वित्रिषोडशनवमेदा इत्येव विवक्षितार्थसंग्रहः स्यात् । तत्रेदमुक्तम्" दुर्व्याख्यानो गरीयांश्च, मोहो भवति बन्धनः ।
न तत्र लाघवादिष्टं, सूत्रकारेण दुर्वचम् ॥" इति ॥१०॥ सम्प्रति क्रमप्राप्तस्यायुष्ककर्मणश्चत्वार्युत्तरप्रकृतिस्वरूपाण्यभिधित्सुराह--
सूत्रम्-नारक-तैर्यग्योन-मानुष-दैवानि ॥ ८-११॥ १'मोहतन्त्रता च कषायजनिता' इति च-पाठः । २ छाया. यद् अतिदुःखं लोके यच्च सुखमुत्तमं त्रिभुवनेऽपि । तद्विद्धि कषायाणां वृद्धिक्षयहेतुकं सर्वम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org