________________
मायाशब्द
१४६ तत्त्वार्थाधिगमसूत्रम् .
[ अध्यायः ८ नयः । यथा शैलस्तम्भस्तथाऽनन्तानुबन्धीत्यादिक्रमेण । तस्मात् कुतश्चिनिमित्तादुत्पनो मानः आ मरणान्न व्यपगच्छति जात्यन्तरानुबन्धी निरनुनयोऽप्रत्यवमर्शश्च भवति स शैलस्तम्भसदृशः। तादृशं मानमनुसृत्य नरकेषूत्पत्तिं प्राप्नुवन्तीति निगमनग्रन्थः । चशब्दः समुचितौ । एवमस्थिस्तम्भसदृश इत्यादिष्वपि यथायोगमुपनयनिगमने वक्तव्ये ॥
. भा०-माया प्रणिधिः उपधिः निकृतिः आचरणं वञ्चना दम्भ: पर्यायाः कूटम् अतिसन्धानम् अनाजैवमित्यनान्तरम् ॥
टी-माया प्रणिधिरित्यादि । मीयतेऽनया जन्तोस्तिर्यग्योन्यादिजन्मेति माया। प्रणिधिः व्रतापरिणतावासक्तिः प्रणिधानं । बाह्यचेष्टयोपधीयते बाह्यत इत्युपधिरन्यथापरि णामश्चित्तस्य । निक्रियतेऽनया परः परिभूयत इति निकृतिः । आचर्यते-अभिगम्यते भक्ष्यते वा परस्तयोपायभूतयेत्याचरणम् तथाच वृक-मार्जार-गृहकोलिकादयः प्रसिद्धाः । परो विप्रलभ्यते यया सा वश्वना । दम्भनं दम्भो वेषवचनाद्यनुमेयः । कूट्यते-दह्यते अमुना परः परिमाणान्तरेणेति कूट, सत्त्वग्रहणं वा कूटं तद्वत् परिणामः । अतिसन्धीयतेऽनेन पर इति अतिसन्धान अतीवानुप्रविश्य सम्धानमन्तरङ्गताप्रदर्शनं ततो विनाशः । ऋजोर्भावः आर्जवंतद्विपरीतं अनार्जवम्-कायमनोवक्रता । इतिशब्द एवार्थे । एवमेतान्येकार्थाभिधायीनि नामानीति ॥
भा०–तस्या मायायास्तीवादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा-वंशकुडङ्गसदृशी, मेषविषाणसदृशी, गोमूत्रिकासदृशी, निर्लेखनसहशीति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनैव्याख्याते॥
टी-तस्या इत्यादि गतार्थम् । वंशकुडङ्गो-वंशमूलमतिकुटिलं ऋजुकर्तुमशक्यं उपायशतेनापि । शेषं गतार्थ प्रायः। निर्लेखनं वर्धक्यवलेखनीधारोल्लिखितमत्यन्तकुटिलम् । अत्रापीत्यादि गतार्थम् ॥
अगस्य भा०-लोभो रागो गाध्य इच्छा मूछी स्नेहः काङ्क्षाभिष्वङ्ग पर्यायाः इत्यनान्तरम् ॥
टी-लोभो राग इत्यादि । लुभ्यतेऽनेन जीव इति लोभः । आत्मरञ्जनाद् रागः । प्राप्तेष्टवस्तुषु गाय अभिरक्षणादि कार्य गृद्धिलक्षणम् । इच्छाऽभिलाषस्त्रैलोक्यविषयः । मूच्छी प्रकर्षप्राप्ता मोहवृद्धिः। स्त्रिात्यनेनेति स्नेहः पितृपुत्रपन्यादिषु प्रीतिविशेषः । भविष्यत्कालोपादानविषया काङ्क्षा । अभिष्वङ्गो बाह्याभ्यन्तरोपकरणविषयसुखे राग आसक्तिः । शेषं पूर्ववत् ॥
१व्ययं गच्छति' इति च-पाठः। २ 'ऽपचितत्वेवाधीयत' इति कु-पाठः । ३ 'गुहणन्नं (१) वा' इति -पाठः । ४ 'कुणसदृशी' इति घ-पाठः । ५'शेषा गतार्थाः प्रायः' इति च-पाठः । ६ 'प्राप्तेषु' इति चपाठः । ७ ' यामुखः सङ्गः सक्तिः ' इति ग-च-पाठः ।
लोभश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org