SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सूत्र १० ] . .स्वोपज्ञभाष्य टीकालङ्कृतम् १४५ रोहति, एवं यथोक्तनिमित्तो यस्य क्रोधोऽहोरात्रं पक्षं मासं चातुर्मास्यं संवत्सरं वाऽवतिष्ठते स वालुकाराजिसदृशो नाम । तादृशं क्रोधमनुसृता मनुष्येषूपपत्तिं प्राप्नुवन्ति ॥ _____टी-वालुकाराजिसदृशो नामेत्यादि सुज्ञानम् । जघन्येनाहोरात्रं उत्कर्षण संवत्सरपरिणामोऽपीति । शेषं गतार्थम् ॥ भा०-उदकराजिसदृशो नाम । यथोदके दण्डशलाकाऽङ्गुल्यादीनामन्यत. मेन हेतुना रजिरुत्पन्ना द्रवत्वादपामुत्पत्त्यनन्तरमेव संरोहति, एवं यथोक्तनिमित्तोत्पन्नो यस्य क्रोधो विदुषोऽप्रमत्तस्य प्रत्यवमर्शनोत्पत्त्यनन्तरमेव व्यपगच्छति स उद्कराजिसदृशः । तादृशं क्रोधमनुसृता देवेषूपपत्तिं प्राप्नुवन्ति ॥ .टी-उदकराजिसदृशो नामेत्यादि प्रायः सुज्ञानम् । विदुष इति क्रोधपरिणामाभिज्ञस्य । प्रत्यवमर्श:-पश्चात्तापः हाँ दुटुकयमित्यादिकः । शेषं सुज्ञानम् ॥ भा०—येषां त्वेष चतुर्विधोऽपि न भवति ते निर्वाणं प्राप्नुवन्तीति ॥ टी-येषामित्यादि । अनन्तानुबन्ध्यादिचतुर्विधक्रोधक्षपणान्मुक्तिप्राप्तिरवश्यंभाविनीति । • सम्प्रति मानचातुर्विध्यप्रदर्शनायाहमानशब्दस्य भा०-मानः स्तम्भः गर्वः उत्सेकः अहङ्कारः दर्पः मदः स्मय पर्यायाः इत्यनान्तरम् ॥ टी०-मान इत्यादि । सर्वदाऽऽत्मपूजाकाइक्षित्वात्मानः। स्तम्भनात् स्तम्भः अबनतेरभावात् । गर्यो जात्यादिः । उत्सेको ज्ञानादिभिराधिक्येऽभिमान आत्मनः । अहङ्कारोऽ. हमेव रूपसौभाग्यसम्पन्न इति । दो बलकृतः । मद्यादिमवदनालापदर्शनात् मदः। परापराधसहनप्रायत्वात् स्मयः । सर्व एते मानविशेषा इत्यतोऽनान्तरमिति । क्रोधस्येवास्यापि तीव्रादिभावप्रदर्शनायाह भा०-तस्यास्य मानस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा-शैलस्तम्भसहशः, अस्थिस्तम्भसदृशः, दारुस्तम्भसदृशः, तृणस्तम्भसदृश इति । एषामुपसंहारो निगमनं च क्रोधनिदर्शनैव्याख्यातम् ॥ ___टी-तस्यास्येत्यादि । तस्येति पूर्वोदिष्टस्य । अस्येति पर्यायभेदेन निर्दिष्टस्य । आदिग्रहणात् मध्यो मन्दश्च भाव:-आत्मनः परिणतिविशेषः । अनन्तानुबन्ध्यादिषु क्रमेण शैलस्तम्भसदृशेत्याधुदाहरणानि योज्यानि। एषामित्यादिना निर्दिशति । उपसंहार उप १ 'क्रोधः' इत्यधिको घ-पाठः । २ 'निमित्तो यस्य' इति घ-पाठः । ३ मर्शिनो' इति घ-पाठः । ४ ' णामैभैदस्य' इति ङ-पाठः। ५'हा दुकय' इति उ-पाठः। ६'प्राप्नुवन्ति ' इति घ-पाठः।७/लतास्तम्भ' इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy