SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १४४ ____तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ८ राजिरुद्भूता वर्षास्ववश्यंतया सा निधनमायाति । क्रोधोऽप्येवमुत्पन्नो वर्षाभ्यन्तरे प्रशाम्यतीति॥ प्रत्याख्यानावरणस्तु वालुकाराजिसदृशः। वालुकायां हि राजिरुत्पन्ना प्रकर्षतश्चतुर्मासाभ्यन्तरे भूयः सन्धत्ते । क्रोधोऽप्येवं प्रत्याख्यानावरणश्चातुर्मासाभ्यन्तरे नियमेनोपशाम्यतीति ॥ संज्वलनक्रोधाग्निः समुद्भूतः पाक्षिकप्रतिक्रमणकाले प्रकर्षतो विध्यायतीति उदकराजिसदृश इति समाख्यायते । अस्य च उदकराजिसदृशात् पक्षमात्रकालसंसूचकं विज्ञेयम् । भा०--तत्र पर्वतराजिसदृशो नाम। यथा प्रयोगविस्रसामिश्रकाणामन्यतमेन हेतुना पर्वते राजिरुत्पन्ना नैव कदाचिदपि संरोहति, एवमिष्टवियोजनानिष्टयोजनाभिलषितालाभादीनामन्यतमेन हेतुना यस्योत्पन्नः क्रोधः आ मरणान्न व्यपगच्छति जात्यन्तरानुबन्धी निरनुनयस्तीबानुशयोऽप्रत्यवमर्शश्च भवति स पर्वतराजिसदृशः । तादृशं क्रोधमनुमृता नरकेषूपपत्तिं प्राप्नुवन्ति ॥ टी-तत्र पर्वतराजिसदृशो नामेत्यादिना ग्रन्थेनोदाहरणानि भावयति । प्रयोगः पुरुषव्यापारः । विनसा-स्वभावः । मिश्रकरणादुभयपरिग्रहः पुरुषव्यापारस्वभावाभ्यामिति । एषां त्रयाणामन्यतमेन हेतुनेति सम्बन्धः। सम्प्रति क्रोधोत्पत्तेनिमित्तमाख्याति-इष्टार्थवियोजनादनिष्टार्थसंयोजनादभिलषितालाभादित्यादीनां कारणानामन्यतमेन हेतुना । यस्योत्पन्नः क्रोध इत्यादि । भवान्तरमप्यनुबध्नाति । निरनुनय इति । अनुनयः परचाटुकरणादिक्रिया तदभावानिरनुनयः । अप्रत्यवमशे इति । अविद्यमानपश्चात्तापपरिणामः । शेषं गतार्थम् । भा०-भूमिराजिसदृशो नाम । यथा भूमेर्भास्कररश्मिजालादात्तस्नेहाया वाय्वभिहताया राजिरुत्पन्ना वर्षापेक्षसंरोहा परमप्रकृष्टाऽष्टमासस्थितिर्भवति, एवं यथोक्तनिमित्तो यस्य क्रोधोऽनेकवर्षस्थायी दुरनुनयो भवति, स भूमिराजिसदृशः । तादृशं क्रोधमनुमृताः तिर्यग्योनावुपपत्तिं प्राप्नुवन्ति ॥ टी०-भूमिराजिसदृशो नामेत्यादि अप्रत्याख्यानकषायानाश्रित्योच्यते, आत्तस्नेहाया इति गृहीतापीतस्नेहायाः, वायुना चाभ्याहताया इत्यनेकेकारणतां भूमिराजेरावेदयते । जघन्येनाष्टमासस्थितिरुत्कर्षेण वर्षस्थितिरिति । एवं यथोक्तेत्यादिना दृष्टान्तेन दाष्टोन्तिकमर्थ समीकरोतीति । शेषं सुज्ञानम् ॥ भा०-वालुकाराजिसहशो नाम। यथा वालुकायां काष्ठ-शलाका-शर्करादीनामन्यतमेन हेतुना राजिरुत्पन्ना वाय्वीरणाद्यपेक्षसंरोहा अर्वाग् मासस्य सं १ 'विध्यायतीति' इति ग-च-पाठः। २'सादृश्यं इति ग-पाठः । ३'पर्वतराजि०' इति घ-पाठः। । 'ध्ययं गच्छति' इति घ-पाठः। ५ 'सृता' इति ग-पाठः। ६'प्रयोगः व्यापारः' इति च-पाठः ७' पक्षाद' इति उ-पाठः। ८ 'विधस्थानीयो' इति घ-पाठः। ९कं कारणं' इति ङ-च-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy