________________
सनं १० ]
. स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-अनन्तानुबन्धीत्यादि । अनन्तानुवन्धिकषायोदयः सम्यग्दर्शनमुपहन्ति, तद्विधपरिणामोत्पादमेव निरुणद्धीत्यर्थः । एतदेव स्पष्टयति-तस्योद्याद्धि सम्यग्दर्शनं नोत्पद्यते प्रागवाप्तमपि प्रतिपततीति । अप्रत्याख्यानेत्यादि । सर्वदेशलक्षणाया विरतेरभावः । प्रत्याख्यानेत्यादि देशविरतिर्भवति । उत्तमचारित्रं सर्वस्मात् प्राणातिपाताद् विरमामीत्येवंरूपं तस्य लाभो न भवतीति । तुशब्दोऽवधारणार्थः। न जातुचिदेव भवतीति । संज्वलनेत्यादि । संज्वलनकोयोदये त्वकषायचारित्रलाभो नास्ति । पूर्वोद्दिष्टसामायिकेभ्योऽनन्तरमथाख्यातः क्रियाविशेषः । अथाख्यातचारित्रं साक्षादनन्तरकारणं मुक्तेरिति । यथाख्यातचारित्रं वा, येन वा प्रकारेण यथा भगवद्भिराख्यातमकषायं चारित्रं भवतीति । सर्वथा कषायाः संसारे हिण्डयन्ति जीवमिति काका प्रतिपादयति । यतस्तेषामुदये प्रतिविशिष्टज्ञानक्रियावाप्तिरेव न समस्तीति । उपशान्तक्षीणकषायस्य सतो हि यथाख्यातमिष्यते । तत्राप्युपशान्तकषायी कदाचित्पातेऽपि विशुद्धिस्थानात् कुतश्चिन्न शक्यते । क्षीणकषायस्य तु नास्ति प्रतिपातः । शास्त्रे पर्यायशब्दैरपि क्रोधादिकपायाणां व्यवहारोऽस्तीत्येतत् प्रदर्शनम्जोधस्य पर्यायाः भा०-क्रोधः कोपोरोषो द्वेषो भण्डनं भाम इत्यनन्तरम्। तभावानुसारीणि तस्या(?)स्य क्रोधस्य तीव्र-मध्य-विमध्य-मन्दभावाश्रितानि निदनिदर्शनानि च र्शनानि भवन्ति ।
टी०-क्रोध इत्यादि । क्रोधनं क्रोधोऽप्रीतिः । कोपनं कोपः पूर्वावस्थातोऽन्यथा परिणामः । रोषणं रोषः तत्परिणामेनारूषितत्वादात्मनः । द्वेषणं द्वेषः तत्परिणामस्य वचनद्वारेण प्रकाशनात् निर्देशनात् । भण्डनं कलहः । भाम इति क्रोधविशेष ईर्ष्यालक्षणः। एवमादयः शब्दाः क्रोधार्थप्रतिपादकत्वादेकार्थाभिधायित्वादनान्तरमेवेति ॥
भा०—तद्यथा-पर्वतराजिसदृशो भूमिराजिसदृशो वालुकाराजिसदृश उदकराजिसदृश इति ।
टी०–अधुनाऽनन्तानुबन्ध्यादिभेदस्यैकैकस्य क्रोधादेस्तीवादिभावदर्शनार्थ निदर्शनान्याह भाष्यकारः-तद्यथेत्यादिना। चतुर्णामपि क्रमेणानन्तानुबन्ध्य-प्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनानां क्रोध-मान-माया-लोभानामेकैकस्य चातुर्विध्यं दर्शयति-पर्वतराजिसहश इत्यादि । पर्वतराज्या सदृशः। पर्वतः पाषाणपुञ्जस्तदेकदेशोऽप्युपचाराच्छिलादिविभागः पर्वतः, तत्र राजिः-भिदा पर्वतराजिः तया सदृशः पर्वतराजिसदृशः । शिलायां राजिरुत्पन्ना यावत् शिलारूपं तावदवतिष्ठते, न च तस्याः सन्धानमस्ति, एवमनन्तानुबन्धी क्रोध उत्पन्नो भवापेक्षया यावत् तत्र भवे जीवति तावदप्यनुवर्तते, न तस्यास्त्युपसंहरणोपायः, तदनु मरणाच भूयसा नरकमेति । अप्रत्याख्यानस्तु भूमिराजिसदृशः संवत्सरमात्रकालानुबन्धी । भूमौ हि
१'प्रागेतनमपि ' इति उ-पाठः। २ 'कषायत्रये' इति इ-पाठः। ३ 'नास्तीत्यतः प्रदर्शनम्' इति च-पाठः। 'पेक्षया तत्र' इति च-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org