________________
स्वार्थाधिगमसूत्रम्
[ अध्यायः ८
तद्यथेत्यनेन तत्रापि नोकषायान् स्वरूपेणाख्यातुमुपक्रमते तत्र हास्यनोकषायमोहोदयात् सनिमित्तमनिमित्तं वा हसति स्मयते रङ्गावतीर्णनटवत् । रतिमोहोदयाद् बाह्याभ्यन्तरेषु वस्तुषु प्रीतिः आसक्तिः । इष्टेषु च शब्दादि विषयेषु । अरतिमोहोदयादेतेष्वेवाप्रीतिररतिः । शोकमोहोदयात् परिदेवते हन्ति च स्वमस्तकाद्यवयवान् निःश्वसिति रोदिति स्तनति लोठति भुवः पीठ इत्यादि । भयमोहोदयात् त्रस्यत्युद्विजते वेपत इत्यादि । जुगुप्सा मोहनीयोदयात् शुभाशुभ द्रव्यविषयं व्यलीकमुपजायत इत्यादि । पुरुषवेदमोहोदयात् अनेकाकारासु स्त्रीष्वभिलाषः आम्रफलाभिलाष इवोद्रिक्तश्लेष्मणः, तथा सङ्कल्पजास्त्रपीत्यादि । स्त्रीवेदमोहोदयात् नानाकारेषु पुरुषेष्वभिलाषः, सङ्कल्पजेषु चेत्यादि । नपुंसक वेदमोहो बहुरूपः, तदुदयात् कस्यचित् स्त्रीपुरुषद्वय विषयोऽप्यभिलाषः किल प्रादुर्भवति, धातुद्वयोदये मार्जितादिद्रव्याभिलाषवत्, कस्यचित् पुरुषेष्वेवाभिलाषः, सङ्कल्पजविषये चानेकरूप इत्यादि । इतिकरणो नोकषायेयत्ताप्रदर्शनार्थः । उक्तमेवमेतन्नो कषाय वेदनीयं नवप्रकारम् । एषां पुरुषादिवेदानां त्रयाणामपि तीव्रादिपरिणामसंसिद्ध्यर्थ दृष्टान्तानाविश्चिकीर्षुराह -
भा०-तत्र पुरुषवेदादीनां तृणकाष्ठकरीषाग्नयो निदर्शनानि भवन्तीति । एवं मोहनीयमष्टाविंशतिभेदं भवति ॥
टी० - पुरुषवेदादीनामिति क्रमनियममाचष्टे । तृणादयः कृतद्वन्द्वाः प्रत्येकमग्निशब्देन सहाभिसम्बध्यन्ते । निदर्शनानि निदर्श्यन्त इति दृष्टान्ता भवन्ति । एतानि च कृतसन्निवेशक्रमात् । इतिशब्दोऽन्याने कनिदर्शनप्रतिपत्यर्थः । तत्र पुरुषवेदमोहानेर्भृशं ज्वलतः समासादितप्रतिक्रियस्याश्वेव प्रशमो जायते, समासादिततृणपुलकस्येव नातीव स्थास्नुरनुबन्धः । स्त्रीवेदजातवेदसस्तु बहुतरकालावस्थायिनः सम्भाषणस्पर्शनेन्धनाभिवर्धितस्य चिराय प्रशमो जायते, दृढतरखादिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनस्येव । नपुंसक वेद महामोह सप्तार्चिषस्तु समासादितोदयस्य महानगरस्य दाहदहनतुल्यस्य करीषकृशानोरिवान्तर्विजम्भमाणदीप्ततरकणनिकरस्य बहुतरकालेऽस्य प्रशमो भवति । सम्प्रत्युपसंहरति - एवमित्यादि । उक्तेन प्रकारेण द्वित्रिषोडशनवभेदलक्षणेनाष्टाविंशतिभेदलक्षणेनाष्टाविंशतिभेद मोहनीयमुक्तम् ॥
संम्प्रत्यनन्तानुबन्ध्यादिकषायाणामुदयेऽयमात्मा सम्यक्त्वादिसामायिकानां क किं लभते किंवा न लभत इति प्रतिपादयिषुराह -
भा० - अनन्तानुबन्धी सम्यग्दर्शनोपघाती । तस्योदयात् अनन्तानुबन्ध्यादि- सम्यग्दर्शनं नोत्पद्यते, पूर्वोत्पन्नमपि च प्रतिपतति । अप्रत्याकषायाणामुदये ख्यानकषायोदयाद् विरतिर्न भवति । प्रत्याख्यानावरणकषासम्यग्दर्शनादीनायोदयाद् विरताविरतिर्भवति, उत्तमचारित्रलाभस्तु न भवति । मुपघातः संज्वलनकषायोदयाद् यथाख्यातचारित्रलाभो न भवति ॥
१ ' कारीष' इति च - पाठः । २ ' साम्प्रतम्' इति ङ-पाठः । ३ ' दयाद्धि ' इति घ-पाठः ।
१४२
Jain Education International
For Private & Personal Use Only
•
www.jainelibrary.org