________________
सूत्र १०] .स्त्रोपज्ञभाष्य-टीकालङ्कृतम्
१४१ प्रत्याख्यानपरिणामजन्मविघातकारित्वात् प्रत्याख्यानावरणाः, न तु सत एव प्रत्याख्यानस्येति वाक्यार्थः । तथाचाहुः पूज्याः ( श्रीजिनभद्रगणिक्षमाश्रमणाः )
"'णासंतस्सावरणं ण सओऽभव्वाइविरमणपसंगा। पञ्चक्खाणावरणा तम्हा तस्संभवावरणा ॥१॥ उदए विरइपरिणई न होइ जेसिं खयाइओ होइ । पञ्चक्खाणावरणा त इह जहा केवलावरणं ॥२॥"
-विशेषावश्यके (गा० १२३६-१२३७) तदुदयवर्तिनश्च द्वादशविधगृहधर्मावाप्तिः । यथाऽऽह
"श्रावकधर्मो द्वादशभेदः संजायते ततस्तस्य ।
पञ्चत्रिचतुःसंख्यावतगुणशिक्षामयः शुद्धः॥१॥" संज्वलनकषायस्वरूपोपपादनायाह-संज्वलनकषाय इति । समस्तपापस्थानविरतिभाजमपि यतिं दुःसहपरिषहसंपाते युगपत् संज्वलयन्तीति संज्वलनाः । यथाऽऽह
__ " संज्वलयन्ति यतिं यत् संविग्नं सर्वपापविरतमपि ।
तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यन्ते ॥१॥" इतिशब्दः कषायवेदनीयस्येयत्तामाह । एकश इति । एकैकस्य अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनकषायस्य क्रोधादयो भेदाश्चत्वार इति । तत्राप्रत्याख्यानक्रोधायुदाहरणानि भूराज्यस्थिमेषशृङ्गकदेमरागाः प्रत्याख्यानावरणक्रोधादेः रेणुराजिकाष्ठगोमूत्रमार्गखञ्जनरागाः संज्वलनक्रोधादेर्जलराजितिनिशलवालेहहरिद्रारागाः । एवमेते षोडशभेदाः कषायवेदनीयस्येति ॥ प्रस्तावप्राप्तं नोकषायवेदनीयमुच्यते
भा०–नोकषायवेदनीयं नवभेदम् । तद्यथा-हास्य, रतिः, अरतिः, शोकः, भयं, जुगुप्सा, पुरुषवेदः, स्त्रीवेदः, नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् ।।
टी०-नोकषायवेदनीयं नवभेदमिति । कषायैकदेशत्वात् कषाय विशेषत्वाद् वा नोकषाया हास्यादयः । मिश्रार्थो वा नोशब्दः । कषायसहकृता एते स्वकार्यनिवर्तनप्रत्यलाः, न ह्यमीषां पृथक् सामर्थ्यमस्ति । यद्दोषश्च यः कषायस्तत्सहचारिण एतेऽपि तत्तदोषा एव भवन्ति । एतदुक्तं भवति-अनन्तानुबन्ध्यादिसहचरितास्तत्स्वभावका एव जायन्ते, तस्मादेतेऽपि चरणोपपातकारित्वात् तत्तुल्यतयैव ग्राह्याः। तथाऽन्येनाप्यवाचि
"कषायसहवर्तित्वात् , कषायप्रेरणादपि।
हास्यादिनवकस्योक्ता, नोकषायकषायता ॥१॥" १ छाया
नासत आवरणं न सतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणाः ततस्तत्सम्भवावरणाः॥ उदये विरतिपरिणतिः न भवति येषां क्षयादितो भवति ।
प्रत्याख्यानावरणास्त इह यथा केवलावरणम् ॥ २ 'तृणशलाकाव' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org