________________
तत्त्वार्थाधिगमसूत्रम् ..
[अध्यायः८ . भा०--तत्र कषायवेदनीयाख्यः षोडशभेदः । तद्यथा-अनन्तानुबन्धी क्रोधो मानो माया लोभः, एवमप्रत्याख्यानकषायः प्रत्याख्यानकषायः संज्वलनकषाय इत्येकशः क्रोधमानमायालोभाः षोडशभेदाः॥
टी-तत्रेत्यादि । तयोचारित्रमोहभेदयोः कषायवेदनीयाख्यस्तावदयं षोडशभेदः। तद्यथेत्यनेन भेदानावेदयते-अनन्तानुबन्धी क्रोध इत्यादि । अनन्तः संसारो नारक-तियङ्-मनुज-देवजन्मजरामरणपरम्परालक्षणः तदनुबन्धादनन्तानुबन्धिनः संयोजनाश्च क्रोध-मान-माया-लोभाः। तत्र क्रोधोप्रीतिलक्षणः। मानो गर्वः। माया शाठ्यम् । लोभो गाय तृष्णेत्यनान्तरम् । आह च___ संयोजयन्ति यन्नग्मनन्तसङ्ख्यैर्भवैः कषायास्ते ।
संयोजनतानन्ताऽनुबन्धिता वाऽप्यतस्तेषाम् ॥१॥ अनन्तानुगन्धिनां च तावत् पर्वतराजिशैलस्तम्भधनवंशमूलकृमिलाक्षारागोदाहरणानि, एवमप्रत्याख्यानावरणकषायश्चतुर्धा क्रोधादिभेदेनेत्यतिदिश्यते। प्रत्याख्यानं द्विविधं-देशविरतिलक्षणं सर्वविरतिलक्षणं च । तत्र देशविरतिलक्षणमल्पं तदावरणं कषायोप्रत्याख्यानावरणकषायः, सामर्थ्यात् अपिशब्दः समुच्चयार्थो लभ्यते । ये स्वल्पमावृण्वन्ति प्रत्याख्यानं ते सर्वविरतिलक्षणमावृण्वन्त्येवेति नास्ति चित्रम् । कषाय इति जातिविवक्षायामेकवचननिर्देशः । आह च
"आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य ।
तेनाप्रत्याख्यानावरणास्ते निर्विशेषोक्त्या ॥१॥" नञ् हि सोऽल्पार्थः, उपमार्थो वा नन्, प्रत्याख्यानावरणवदप्रत्याख्यानावरणः । यथोक्तम्___ "प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् ।
तर्वब्राह्मणवचने तत्सदृशः पुरुष एवेष्टः ॥१॥" एषामुदये सम्यक्त्वलाभः सर्वदेशविरतिलक्षणं प्रत्याख्यानं नास्ति । प्रत्याख्यानावरणकषाय इति तथैवातिदेशः । प्रत्याख्यानशब्देनात्र सर्वविरतिपरिग्रहः तदावरणः। प्रतिशब्दः प्रतिषेधवचनः। प्रतिषेधस्याख्यानं प्रकाशनमाचार्यादिसन्निधौ भावतः 'सर्वान् प्राणिनो न हन्मि यावज्जीवं' इत्यादि प्रत्याख्यान, तदेवंप्रकारं स्थगयन्तीति प्रत्याख्यानावरणाः । यथाऽऽह
" सर्वप्रत्याख्यानं येनावृण्वन्ति तदभिलषतोऽपि ।
तेन प्रत्याख्यानावरणास्ते निर्विशेषोक्त्या ॥१॥" १ 'कायत्रत्याख्यानकषायसंज्वलनकषायवेदनीयं चेति कषायवेदनीयाख्यः षोडशभेदः' इति क-ग-पाठः । २ अनेन सम्भाव्यते यदुतासीत् कश्चित् कर्मविषयकग्रन्थो योऽधुना नोपलभ्यते। ३ 'सम्यक्त्वाद् वा' इति ग-पाठश्चिन्तनीयः। तत्तब्राह्मवचने' इति च-पाठः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org