________________
सूत्रं १०] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१३९ सम्प्रति सम्यक्त्ववेदनीयं शुद्धपुद्गलप्रत्ययस्तत्वार्थश्रद्धानपरिणाम आत्मनः। स चौपशमिकादिभेदेन पञ्चधा पार व्याख्यातः औपशमिक-सास्वादन-वेदक-क्षायोपशमिक-क्षायिका
सम्यक्त्व- ख्यः। तत्रोपशान्ते दर्शनमोहसप्तके भवत्यौपशमिकं सदैव सम्यक्त्व
प्रकारप्रपञ्चः मन्तर्मुहूर्तकालावच्छिन्नं, उपशमसम्यग्दर्शनकाले संयोजना उदयभावं षण्णामावलिकानामन्ते कस्यचिद् यान्ति । उपशमसम्यक्त्वं हि नित्यमेवोपहन्यतेऽनन्तानुबन्धिमिः। यथाऽऽह
"संयोजनोदयश्चेत् स्यादास्यद्येतना(?) सम्यक्त्वम् ।
तस्य तु विशुद्धयतस्तदभावात् सम्यक्त्वमनवद्यम् ॥१॥" क्षायोपशमिकसम्यक्त्वपुद्गलचरमग्रासानुभवकाले वेदकसम्यक्त्वं, उदितमिथ्यात्वपुद्गलक्षये अनुदितमिथ्यात्वोपशमे च क्षायोपशमिकमुक्तं, क्षायिकं तु निरवशेषदर्शनमोहक्षये भवति सम्यक्त्वम् । न च विशुद्धपुद्गलक्षये तत्त्वार्थश्रद्धानलक्षणस्य परिणामस्याभावः । यथाऽऽह
"प्रक्षीणे तर्हि सम्यक्त्वे, सम्यग्दृष्टिः कथं मता।
क्षयो द्रव्यस्य तत्रेष्टः, परिणामस्य न क्षयः॥१॥" सम्यग्मिथ्यात्ववेदनीयमधुनोच्यते । प्रथमतः सम्यक्त्वमुत्पादयन करणत्रयं विधायोपशमसम्यत्वं प्रतिपद्यते । ततो मिथ्यात्वदलिकं त्रिपुञ्जीत्वेन परिणमयति शुद्धमिश्राशुद्धत्वेन । यथाऽऽह--
" सम्यक्त्वगुणेन ततो विशोधयति कर्म तच्च मिथ्यात्वम् ।
यद्वच्छकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः॥१॥" सम्यग्मिथ्यात्वं च तद्वेदनीयं चेति, एवं पूर्वयोरपि द्रष्टव्यम् । इतिशब्दो दर्शनमोहनीयेयत्ताप्रतिपत्तये ।
दर्शनमोहनीयप्रकृतिबन्धमाख्याय सम्प्रति चारित्रमोहप्रकृतिबन्धाचिख्यासया जगाद
भा०-चारित्रमोहनीयाख्यो द्विविधः। कषायवेदनीयं नोकषायवेदनीयं चेति।
टी०-चारित्रमोहनीयाख्यो दिविध इत्यादि । द्विविकल्पश्चारित्रमोहप्रकृतिबन्धः। कषायवेदनीयं नोकषायवेदनीयं चेति ॥ एतावद्भेदं मूलतश्चारित्रमोहनीयम् । यथाक्रम तत्स्वरूपाख्यानायाह
१ 'जनोदयाभूतस्यावस्योगतना• ' इति छ-पाठः। २ 'मुच्चारयन् ' इति ग-पाठः। ३-४ 'दनीयो कषायवेदनीयश्चेति' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org