SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १३८ तार्थाधिगमसूत्रम् यत् सर्वथा तत्र विशुद्धं तद् भवति कर्म सम्यक्त्वम् । मिश्रं तु दरविशुद्धं भवत्यशुद्धं च मिथ्यात्वम् ॥ २ ॥ " मदनकोद्रवास्तु व्यवस्था अविशुद्ध-विशुद्ध-दरविशुद्धा इति दृष्टान्तीकृताः । मिथ्यात्वसम्यत्तत्वसम्यग्मिथ्यात्वेषु मिथ्यात्वोदयाच्च तत्त्वाश्रद्धा भवति, विपरीतदृष्टित्वात् । यथाऽऽह— ननु कोद्रवान् मदनकान् भुक्त्वा नात्मवशतां नरो याति । शुद्धादी न च मुह्यति मिश्रगुणापि मिश्र वा ॥ १॥ स हि मिथ्यात्ववान् गुणगुणिनोरैक्यात् तदुदयानुगुणपरिणाम वर्तित्वात् पीतमद्यहत्पूरभक्षण पितोदयाद् व्याकुलीकृतकरणपुरुषवद् यथाऽवस्थितार्थरुचिप्रतिघातकारिणा मिथ्यानान्यथैव प्रतिपद्यते । यथाऽऽह 44 19 “ मिच्छत्ततिमिरपच्छाइयदिट्ठी रागदोस संजुत्ता । धम्मं जिणपन्नत्तं भव्वावि नरा न रोयंति ॥ १॥ *मिच्छादिट्ठी जीवो उवढं पवयणं न सहहह । REET असम्भावं उवढं वा अणुवइ || २ ||" “ पर्यमक्खरं च इकंपि जो न रोएड सुत्तनिद्दिहं । सेस रोयतोव हुमिच्छादिट्ठी मुणेयव्वो ॥ १ ॥" ० - सङ्ग्रहण्यां ( गा० १६७ ) सूत्रं तु प्रतिविशिष्टपुरुषप्रणीतमेव श्रद्धागोचर इति । यथोक्तम् - “ अर्हत्प्रोक्तं गणधरब्धं प्रत्येकबुद्धब्धं वा । स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥ १ ॥ श्रुतकेवली च तस्मादधिगतदशपूर्वकश्च तौ स्थविरौ । आप्ताज्ञाकारित्वाच्च सूत्रमितरत् स्थविरब्धम् ॥ २ ॥” अहवा - " तं मिच्छत्तं जमसद्दहणं तच्चाण जाण भावाणं संसइयमभिग्गहियं अणभिग्गहियं च तिविहं च ॥ १ ॥" - नवपदशतके (१) [ अध्यायः ८ १ 'सर्वथाऽपि तत्र विशुद्धं तद्' इति गच पाठः । २ 'मिश्रोऽपि ' इति ग-पाठः, 'मिश्रादि' इति तु च- पाठः । ३ छाया मिथ्यात्वतिमिरप्रच्छादितदृष्टयो रागद्वेषसंयुक्ताः । धर्मं जनप्रज्ञप्तं भव्या अपि नरा न रोचन्ते ॥ मिध्यादृष्टिर्जीव उपदिष्टं प्रवचनं न श्रदधाति । श्रद्दधात्यसद्भावमुपदिष्टं वाऽनुपदिष्टम् ॥ ४ 'मिच्छहिडी नियमा' इति पाठान्तरं कर्मप्रकृतौ १६७ तमे पत्राङ्के । ५ छायार्थं दृश्यतां ९७ तमं पृष्ठम् । ६-७ ' दृष्टं ' इति च पाठः । • छाया Jain Education International अथवा तन्मिथ्यात्वं यद् अश्रद्धानं तथ्यानां जानीहि भावानाम् । सांशयिकमाभिप्रहिकमनाभिग्रहिकं च त्रिविधं च ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy