SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सूत्र] . .स्वोपज्ञभाष्य-टीकालङ्कृतम् १३७ किमुत सर्वप्रत्याख्यानमिति । मूलगुणप्रत्याख्यानविधातवर्तिनः प्रत्याख्यानावरणाः क्रोधादयः । स्वल्पनिमित्तप्राप्तावपि युगपत् संज्वलनाः संज्वलनाः क्रोधादयः । एषां चानन्ता नुबन्ध्यादीनामेकैकस्य क्रोध-मान-माया-लोभाख्या विकल्पा भवन्ति, अनन्तानुबन्धिन: क्रोधादयः, एवमप्रत्याख्यानाः प्रत्याख्यानावरणाः संज्वलनाश्चेति । एमेते षोडशभेदाः कपायवेदनीयाः सूचिताः । हास्येत्यादिना सूत्रावयवेन नोकषायवेदनीयमाचष्टे नवभेदम् । तदष्टाविंशतिविधमावेदितं मोहनीय कर्म सूत्रेणेति । अधुना भाष्यमनुस्रियते - भा०-त्रि-द्वि-षोडश-नवभेदा यथाक्रमम् । मोहनीयबन्धो द्विविधःदर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्र दर्शनमोहनीयाख्यस्त्रिभेदः । तद्यथा-मिथ्यात्ववेदनीयं, सम्यत्त्ववेदनीयं, सम्पग्मिथ्यात्ववेदनीयमिति ॥ . ___टी-त्रि-द्वि-षोडश-नवभेदा यथाक्रममित्यादि । उक्तार्थ चैतभाष्यम् । दर्शनचारित्र-कषाय-नोकषायमोहनीयप्रकृतयःक्रमेण त्रि-द्वि-पोडश-नवभेदाः। अनेनाष्टाविंशतिविधता प्रतिपादिता मोहनीयस्य । मोहनीयबन्ध इत्यादि। यथोक्तकारकप्रसिद्धो मोह शब्दो द्विप्र. कारो दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्वार्थश्रद्धानं दर्शनं तन्मोहनाद् दर्शनमोहनीयम् । प्राणातिपातादिविरतिश्चारित्रं तन्मोहनाचारित्रमोहनीयम् । तत्र दर्शनमोहनीयाख्यस्त्रिभेद इत्यादि । तत्र-तयोर्दर्शनचारित्रमोहनीययोर्दर्शनमोहनीयाख्यस्त्रिभेदः प्रक _ तिबन्धस्तावदुच्यते । तद्यथेत्यादिना तमेव दर्शयति-मिथ्यात्ववेदनीयदर्शनमाहनीयस्य मित्यादि । तत्र दर्शनमोहनीयत्रैविध्ये सत्यपि बन्धो भवत्येकविध एव त्रैविध्येऽपि बन्धैकता "तत्त्वार्थाश्रद्धानलक्षणमिथ्यात्ववेदनीयस्य, न सम्यग्मोहनीयस्य, नापि सम्यग्मिथ्यात्वमोहनीयस्येति । यतो मिथ्यात्वपुद्गला एवैकरूपा बद्धाः सन्तः काऽऽत्मनोऽध्यवसायविशेषात् सर्वथा शोधिता मिथ्याभावपरिणाम त्याजिताः सम्यगमिथ्यात्वपरिणति वा प्रापिताः सम्यक्त्व(सम्यग्मिथ्यात्व)व्यपदेशभाजो भवन्तीति ॥ न त्वेवंविधा एव बध्यन्ते, दरविशुद्धास्तु सम्यग्मिथ्यात्वव्यपदेशभाज इति । यथाऽऽह " मिथ्यात्वस्य ह्युदये, जीवो विपरीतदर्शनो भवति। न च तस्मै सद्धर्मः, स्वदते पित्तोदये धृतवत् ॥ १॥" यथोक्तक्रमेण च मिथ्यात्वशुद्धौ ग्रन्थिभेदसमनन्तरं सम्यक्त्वावाप्तिः । ततश्च " सम्यक्त्वगुणेन ततो विशोधयति कर्म तच मिथ्यात्वम् । यद्वच्छकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः॥१॥ १'किं पुनः सर्वे' इति ङ-पाठः। २'एवमेतत् षोडशभेदं कषायवेदनीयं सचित' इति च-पाठः ३'स्वादु च ' इति ङ पाठः, 'स्वदवे' इति च-पाठः। ४ 'छगणप्रमुखैः' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy