SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १३६ प्रकृतयः . तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ भा०-सवेद्यमसदेद्यं च वेदनीयं विभेदं भवति ॥९॥ टी-सद्यमित्यादि । सच्छब्दः प्राशस्त्ये । प्रशंसा चात्मनोऽभिमतविषयत्वम् । असच्छब्दस्तद्वैपरीत्ये । चशब्द उत्तरप्रकृतिसमुचितौ । वेदनीयं-वेद्यं विभेद-द्विप्रकार भवति ॥९॥ सम्प्रति चतुर्थमूलप्रकृतेर्मोहनीयनाम्नः उत्तरप्रकृतिप्रपञ्चाख्यानायाह- सूत्रम्-दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः। सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायौ अनमोहनीयस्या- न्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाटाविंशतिरुत्तर- श्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजु * गुप्साः स्त्रीपुंनपुंसकवेदाः॥ ८-१०॥ टी-मोहनीयमूलप्रकृतेरष्टाविंशतिरुत्तरप्रकृतयः सङ्ग्रहभेदरूपाः सूत्रेणैव निर्दिष्टाः । मोहनीयशब्दः प्रत्येकमभिसम्बध्यते । दर्शनमोहनीयं चारित्रमोहनीयमिति सङ्ग्रहेण निर्देशः । पुनश्चारित्रमोहनीयमुत्तरभेदापेक्षया सङ्ग्रहेणैव निर्दिष्टम् । तद्भदाख्यानं तु कषायवेदनीयं नोकषायवेदनीयमिति । दर्शनमोहनीय इत्यादिका आख्या यासामुत्तरप्रकृतीनां तास्तथा निर्दिष्टाः। तासां भेदप्रतिपादनार्थमाह-त्रिद्विषोडशनवभेदा इति । निर्देशकमेणैव ज्यादयो भेदा यासां तास्तथोक्ताः, दर्शनमोहनीयोत्तरप्रकृतिस्त्रिभेदा, चारित्रमोहनीयोत्तरप्रकृतिभेिदा, तौ चाम्र विकल्पो, कषायवेदनीयं षोडशभेदं, नोकषायवेदनीयं नवभेदमिति । एवमिति एवमेता उत्तरप्रकृतयोऽष्टाविंशतिः सूचिताः मोहनीयप्रकृतेः। ___ अधुना तु ज्यादिभेदान् सूत्रेणैव प्रतिपादयति-सम्यक्त्वमिथ्यात्वतदुभयानीति । सम्यक्त्वं मिथ्यात्वं तदुभयमिति द्वन्द्वनिर्देशः । तत्वार्थश्रद्धानलक्षणं सम्यक्त्वं, तद्विपरीतं मिथ्यात्वं, तदुभयमिति सम्यग्मिथ्यातचश्रद्धानलक्षणम् । एवमेतत् त्रिविधं दर्शनमोहनीयं सूचितम् । कषायनोकषायावित्यनेन चारित्रमोहनीयभेदद्वयाख्यानम् । .. अनन्तानुबन्धिप्रभृति कषायास्त एव मोहनीयम् । अकषाया हास्याअकषायस्यार्थः दयः, केवलाः कषायसम्पर्कशून्याः स्वकार्यासमर्था इत्यकषायाः। सदैव हि कषायसंपृक्ताचारित्रमोहनीयव्यपदेश्याः, अल्पकषायकार्यत्वादकषाया इति । तत्र कषायमोहनीयभेदप्रदर्शनार्थमाह सूत्रशकलम्-अनन्तानुबन्धिक्रोधमानमायालोमा इति । अनन्तः संसारस्तमनुबधन्ति तच्छीलाश्वेत्यनन्तानुबन्धिनः क्रोधादयः । अविद्यमानं प्रत्याख्यानं येषामुदयात् ते प्रत्याख्यानाः क्रोधादयः । अपरे पुनरावरणशब्दमत्रापि सम्बध्नन्ति-अप्रत्याख्यानावरणा इति । अप्रत्याख्यानं देशविरतिः, तदप्यावृण्वन्ति १'प्राशंस्ये' इति -पाठः। २ 'रूपास्तत्रैव ' इति -पाठः । ३ 'सम्पर्काः' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy