________________
• स्वोपज्ञभाष्य - टीकालङ्कृतम्
१३५
नीयम् - अनुभवनीयं निद्रा चासौ वेदनीयं चेति सर्वत्र समानाधिकरणः । वेदनीयदर्शनावरणोत्तरप्रकृतिप्रस्तावे वेदनीयं प्रस्तावापास्तमुपन्यस्तमित्यसमीचीशब्दयोगे हेतुः नमिवाभाति । यतो वेदनीयं तृतीयमूलप्रकृतिरिति । अत्रोच्यते - दर्शनावरणभेदा दर्शनावरणजातीया एव, निद्रादयो यतः समधिगताया एव दर्शनलब्धेः उपयोगंघातें प्रवर्तन्ते, चक्षुदर्शनावरणादिचतुष्टयं तूहमोच्छेदित्वान्मूलघातं निहन्ति दर्शनलब्धिमित्यतो दर्शनावरण भेदाः । वेदनीयशब्दस्तु सामान्येन सकलकर्मानुभववचनोऽपि प्रवचने प्रसिद्धतरत्वात् तृतीयमूलप्रकृतौ व्यवहियते । अनुभवनीयत्वं तु सर्वकर्मणां परमार्थतः समस्तीत्यतो न दोषः । दुःखप्रतिबोधलक्षणा निद्रानिद्रा । ऊर्ध्वशयनलक्षणा प्रचला। चङ्क्रमणमाचरतः शयनं प्रचलाप्रचला | स्त्यायतीति रेत्यानम् । स्तिमितचित्तो नातीव विकस्वर चेतन आत्मा । बाहुलकात् कर्तरि ल्युट् । स्त्यानस्य स्वापविशेषे सति गृद्धि: - आकाङ्क्षाभिलाषो मांसमोदकदन्ताद्युदाहरणप्रसिद्धा स्त्यानगृद्धिः । स्त्यानर्द्धिरिति वा पाठः । तदुदयाद्धि महाबलोऽर्धचक्रवर्तितुल्यबलः प्रकर्षप्राप्तौ भवति । अन्यथा जघन्यमध्यमावस्थाभाजोऽपि संहननापेक्षया सम्भवत्येवेति । स्त्यानस्य ऋद्धिः स्त्यानद्धिरिति । चशब्दः समुच्चयवृत्तिः । दर्शनावरणभेदाः चक्षुर्दर्शनावरणादयो निद्रावेदनीयादयथेति वाक्यार्थः । उक्तार्थानुगामि च भाष्यम्
सूत्र ९]
पाठान्तर• परामर्शः
भा० - चक्षुदर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरणं, केवलदर्शनावरणं, निद्रावेदनीयं, निद्रानिद्रावेदनीयं, प्रचलावेदनीयं, प्रचलाप्रचलावेदनीयं, स्स्यानद्भिवेदनीयमिति दर्शनावरणं नवभेदं भवति ॥ ८ ॥
टी० - चक्षुर्दर्शनावरणमित्यादि सर्व गतार्थम् । दर्शनावरणं नवभेदं भवतीस्वन्ते निगमितं नवभेदमेवेति ॥ ८ ॥
सम्प्रति यत्तदागमे प्रसिद्धं वेदनीयत्वेन तृतीयं मूलप्रकृतिरूपं तदुत्तरप्रकृतिविवक्षया सूत्रकार आह
वेदनीयस्य द्वे उत्तरप्रकृती
सूत्रम् - सदसद्वेद्ये ॥ ८-९॥
डी० -- उत्तरप्रकृतिभेदमात्रस्य विवक्षितत्वात् प्रथमैव, सद्वेद्यमसदेद्यं चेति वेदनीयमूलप्रकृतेरुत्तरप्रकृतिद्वयं भवति । तत्राभिमतमिष्टमात्मनः कर्तुरुपभोक्तुर्मनुजदेवादिजन्मसु शरीरमनोद्वारेण सुखपरिणतिरूपमागन्तुकानेकमनोज्ञद्रव्यक्षेत्र कालभावभवसम्बन्धसमासादितपरिपाकावस्थमतिबहुभेदं यदुदयाद् भवति तदाचक्षते । सद्वेदनीयमभिहितं, विपरीतमसद्वेदनीयम् । एवंविधार्थानुवादि च भाष्यम् ।
२ 'स्स्यानस्तिमित' इति च पाठः । ३ ' स्त्यानगृद्धि' इति घ-पाठः ।
१' योगतः' इति पाठः ।
४' भावसम्बन्ध इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org