________________
तत्त्वार्थाधिगमसूत्रम् ..
[अध्यायः तद् यथा-इन्द्रियानिन्द्रियनिमित्तत्वादवग्रहादयो मतिज्ञानस्य, अङ्गानङ्गविकल्पाः श्रुतज्ञानस्य, भवक्षयोपशमजप्रतिपात्यादिविकल्पाचावधिज्ञानस्य, ऋजुविपुलमतिविकल्पौ मनःपर्यायज्ञानस्य, सयोगायोगास्थादिविकल्पाः केवलज्ञानस्येति । तत्रेन्द्रियनिमित्तं श्रोत्रादिपञ्चकसमुद्भव क्षयोपशमनं ज्ञानं योग्यदेशावस्थितख विषयग्राहि । अनिन्द्रियं तु मनोवृत्तिः ओषज्ञानं च, तदेतन्मतिज्ञानं चतुरष्टाविंशतिद्वात्रिंशत्पत्रिंशदुत्तरत्रिशतभेदमावियते येन तन्मतिज्ञानावरणं देशघातिलोचनपटलवच्चन्द्रप्रकाशाऽभ्रादिवद् वा । तथा श्रोत्रेन्द्रियोपलब्धिः श्रुतं शेषेन्द्रियमनोविज्ञानं च श्रुतग्रन्थानुसारि खार्थाभिधानप्रत्यलं श्रुतज्ञानं, तदनेकमेदमाचक्षते प्रवचनामिज्ञाः । यथाऽऽह (बृहत्कल्पे?)
"'जावंति अक्खराई, अक्खरसंजोग जेत्तिया लोए।
एवइया पगडीओ, सुयनाणे होंति नायव्वा ॥१॥" वस्यावृतिः श्रुतज्ञानावरणम् । एतदपि देशघातीति । अन्तर्गतबहुतरपुद्गलद्रव्यावधानादवधिः पुद्गलद्रव्यमर्यादयैव वाऽऽत्मनः क्षयोपशमजः प्रकाशाविर्भावोऽवधिः-इन्द्रियनिरपेक्षः साक्षात् वेयग्राही लोकाकाशप्रदेशमानप्रकृतिभेदः, तदावरणमवधिज्ञानावरणम् । इदमपि देशघात्येव । तथाऽऽत्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य यः प्रतिभासो मनुष्यक्षेत्राभ्यन्तरवृत्तिपल्योपमासङ्ख्येयभागावच्छिन्नपश्चात्पुर:कृतपुद्गलसामान्यविशेषग्राही मनःपर्यायज्ञानसंबस्तस्यावरण देशघाति मनःपयोयज्ञानावरणम्। समस्तावरणक्षयाविभूतमात्मप्रकाशतत्त्वमशेषद्रव्यपयोयग्राहि केवलज्ञानं तदाच्छादनकृत् केवलज्ञानावरणम् । एतच्च सर्वघातीति ॥७॥
सम्प्रति दर्शनावरणोत्तरप्रकृतिप्रतिपिपादयिषया सूत्रमाहदर्शनावरणस्य नवो. सूत्रम्-चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्रात्तरप्रकृतयः, प्रचलाप्रचलाप्रचलास्त्यानद्धिवेदनीयानि च ॥८॥
टी०-चक्षुरादयः कृतद्वन्द्वाः षष्ठया निर्दिष्टाः प्रस्तुतावरणसम्बन्धाद् वेदनीसम्बन्धनिराकरणप्रतिपत्तेश्व, दर्शनावरणमूलप्रकृतिसामर्थ्यात् चक्षुरादयो दर्शनशब्देन सहामिसम्बध्यात्, निद्रादयः पञ्च स्त्यानद्धर्थन्ताः कृतद्वन्द्वाः वेदनीयशब्दोत्तरनिर्दिष्टाः समानाधिकरणप्रतिपत्त्यर्थम् । पश्यत्यनेनात्मेति चक्षुः। सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस करणद्वार, तद्द्वारकं च सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुर्दर्शनं तल्लब्धिधाति चक्षुर्दर्शनावरणं, शेषेन्द्रियमनोविषयमविशिष्टमचक्षुर्दर्शनं तल्लब्धिघात्यचक्षुर्दर्शनावरणम् । अवधावपि प्रथमसम्पाते सामान्यमात्रोपलम्भनमवधिदर्शनम् । केवलदर्शनमपि सामान्योपयोगलक्षणम् । एतदुत्तरावरणमवधिदर्शनावरणं केवलदर्शनावरणं च। स्वापो निद्रा सुखप्रतिबोधलक्षणा । वेद
१ छाया-.
यावन्ति अक्षराणि अक्षरसंयोगा यावन्तो लोके ।
एतावत्यः प्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्याः ॥ २'तदात्मनो' इति ङ-पाठः। ३'छिन्नपचागा(2)-पुर:कृत' इति च-पाठः। ४' स्स्यानगृद्धिवेद.' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org