________________
१३३
सूत्रं ७]
स्वोपज्ञभाष्य टीकालङ्कृतम् तद्यथेत्यनेन सूत्रं सम्बध्नाति । पञ्चादिभेदा झानावरणादयोऽभिहिताः, तद् यथा ते व्यवस्थिताः येन क्रमेण स्वरूपेण पञ्चादिभेदास्तथा अष्टापि मूलप्रकृतिघूत्तरप्रकृतयः प्रतिपदं प्रदश्यन्त इत्याह।
सूत्रम्-मत्यादीनाम् ॥ ८-७॥ टी.-मत्यादीनामित्यादि । मतिरादिपेषां श्रुतावधिमनःपर्यायकेवलज्ञानानामिति तद्गुणसंविज्ञानो बहुव्रीहिः तानि मत्यादीनि तेषां मत्यादीनामावरणम् । क्रिययाऽऽस्तुमिष्टतमत्वात् कर्मणि षष्ठी । मत्यादीनामावरणं मत्यादीन्यात्रियन्तेऽनेनेति । अपरे तु प्रतिपदं पञ्चापि पठन्ति-मतिश्रतावधिमनःपर्यायकेवलानामिति । एवं चापार्थकः पाठो लक्ष्यते । यतोऽ
नन्तरसूत्रे पश्चादिभेदा ज्ञानावरणादय इत्यवधृतमेव । निज्ञाताश्च स्वरूसूत्रपाठविचारः पतः प्रथमाध्याये व्याख्यातत्वात् । अत आदिशब्द एव च युक्तः ।
भाष्यकारोऽप्येवमेव सूत्रार्थमावेदयतेभा०-मत्यादीनां ज्ञानानामावरणं पञ्चविधम्-मतिज्ञानावरण, श्रुतज्ञानावरण, अवधिज्ञानावरणं, मनापर्ययज्ञानावरणं, केवलज्ञानावरणम् । मत्यादीनांज्ञानानामावरणानि पञ्च भवन्ति ॥७॥
टी-ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानाोवरणानि पश्च विकल्पाश्चैकश इत्येतावदेव भाष्यमस्य सूत्रस्य । तत्र ज्ञानावरणं पञ्चविधं भवतीत्यनेनानन्तरसूत्रोक्तसंख्यावधारणं मन्तव्यम् । सूत्रार्थमाचष्टे-मत्यादीनां ज्ञानानामावरणानि पञ्चेति, मत्यादय एव ज्ञानानीति समानाधिकरणमाविष्करोति । तेषां मत्यादीनां ज्ञानानां पञ्चानां पञ्चैवावरणानि भवन्ति । बाहुल्यमङ्गीकृत्य समानाधिकरणप्रतिपत्तिः । मनःपर्यायज्ञाने तु सप्तम्यन्तेन समासः पूर्वपदेन, मनःपर्यायेषु ज्ञानं मनःपर्यायज्ञानम् । अथवा करणरूपाः पर्यायाः कार्यत्वेनोपचरिता इति समानाधिकरण एव । तानि तु प्रथितान्येव । तद् यथा-मतिज्ञानावरणं श्रुतज्ञानावरणं अवधिज्ञानावरणं मनःपर्यायज्ञानावरणं केवलज्ञानावरणमिति । तत्रात्मनो ज्ञस्वभावस्य प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षयसमुद्भवाः प्रकाशविशेषा मतिज्ञानादिव्यपदेश्याः पयोया बहुविकल्पाः। तत्र च ज्ञानावरणस्य स्वस्थाने यावन्तो विकल्पा: सम्भवन्ति सर्वे ते ज्ञानावरणग्रहणेनैव ग्राह्या इति भाष्यार्थः । विकल्पा-भेदाः । आदिशब्दोपादानात् मत्यज्ञानादित्रितयं समुच्चीयते, बोधसामान्यात् मतिश्रुतावध्यविशेषाच ।
१ 'मतिश्रुतावधिमनःपर्यायकेवलानाम्' इति घ-टी-पाठः । २'कारोऽयमेव' इति इ-पाठः। ३ घ-पुस्तके। भाष्यं तु यथा-'ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानामावरणानि पञ्च । विकल्पांश्चैकश इति ॥'इदं टीकाकाराणां संमतम् ।
.. ४ मावृणोति' इति हु-पाठः । ५ 'धारणम् । मत्यादीनां' इति हु-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org