________________
१३२ तत्त्वार्थाधिगमसूत्रम् ..
[अध्यायः ८ भा०-आद्य इति सूत्रक्रमप्रामाण्यात् प्रकृतिवन्धमाह । सोऽष्टविधा, तद्यथा-ज्ञानावरणं, दर्शनावरणं, वेदनीयं, मोहनीर्य, आयुष्क, नाम, गोत्रम् , अन्तरायमिति ॥५॥ किश्चान्यत्
टी०-आद्य इति सूत्रक्रमप्रामाण्यादित्यादि भाष्यम् । आधः-प्रथमो मूलप्रकतिबन्धः । इति करणः शब्दपदार्थकः । सूचनात् सूत्रं अनेकभेदं कर्म यतः सूचयति । क्रम:सन्निवेशस्तस्य प्रामाण्यमन्यप्रमाणत्वादिवत् समासः तस्मात् , सूत्रक्रमप्रामाण्यादिति हेत्वों पञ्चमी । प्रकृतिबन्धमिति सामान्याभिधानेऽपि मूलप्रकृतिबन्धमेव काका प्रतिपादयति सूत्रकारः । यतः पञ्चनवेत्यादिनोत्तरप्रकृतिवन्धं वक्ष्यति (अ० ८, सू० ६)। स मूलप्रकतिबन्धोऽष्टविध:-अष्टप्रकारः । तद्यथा-ज्ञानावरणमित्यादि गतार्थे भाष्यम् । इतिकरण: शुभाशुभस्य कर्मण इयत्ताप्रतिपत्तये प्रायोजीति ॥५॥
किश्चान्यदित्यादिना सूत्रस्य सम्बन्धमाचष्टे । न केवलं प्रकृतिबन्धो मूलविशेषणः, उत्तरोपपदविशेषणश्चेत्येतदनन्तरं प्रतिपादयन्नाहमलप्रकृतीनामवा- सूत्रम्-पञ्चनवद्यष्टाविंशतिचतुर्दिचत्वारिंशदद्धिन्तरभेदसङ्ख्या
पञ्चभेदा यथाक्रमम् ॥ ८-६॥ टी-पश्चादीनां कृतद्वन्द्वानां भवनविभक्त्या निर्देशः । एते भेदाः-पञ्चादिभेदा यथाक्रममित्यनन्तरसूत्रक्रमं प्रत्यवमृशति, अनन्तरसूत्रक्रमप्रामाण्यात् ज्ञानावरणाद्यभिसम्बन्धः। तांश्च पञ्चादिकान् भेदान् स्वभावतः प्रति मूलप्रकृतिं वक्ष्यति । ता एव मूलप्रकृतीरभिसम्बन्धयन्नाह
__ भा०–स एष प्रकृतिवन्धोऽष्टविधोऽपि पुनरेकशः पञ्चभेदः नवभेदः विभेदः अष्टाविंशतिभेदः चतुर्भेदः द्विचत्वारिंशद्भेदः द्विभेदः पञ्चभेद इति यथाक्रमं प्रत्येतव्यम् । इत उत्तरं यद् वक्ष्यामः ॥६॥ तद्यथा
___टी–स एष प्रकृतिबन्धोऽष्टविधोऽपीत्यादि । आत्मपुद्गलद्रव्यस्यान्वयित्वात् स इत्यनेन सामान्यमात्रपरामर्शः । एष इत्यन्वयिनः परिणामविशेषप्रतिपत्तिः । प्रकृतिबन्ध इति मूलप्रकृतिबन्धोऽष्टप्रकारोऽपि भूय एकैको ज्ञानावरणादिपश्चादिभेदो मन्तव्य इति क्रमेण भाष्यकृद् दर्शयति-पञ्चभेद इत्यादिना भाष्येण । समुदायार्थस्त्वस्य भाष्यस्य प्रागास्रवोद्देशे मूलप्रकृतिप्रदर्शित एव, केवलं इह तूत्तरभेदानां सङ्ख्याप्रदर्शनमिति । तत्र पञ्चभेदो ज्ञानावरणप्रकृतिबन्धः क्रमेण यावत् पश्चभेदोऽन्तरायप्रकृतिबन्ध इत्येवमेतद् यथाक्रमं प्रत्येतव्यम् । इतःप्रभृत्युत्तरकालं यदभिधास्याम इति ॥६॥
१ 'बन्धे' इति ग-पाठः। २'तदनेन ' इति पाठः । ३ 'प्रदर्शनमेव ' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org