SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ मा सूत्र ५] स्लोपज्ञभाष्य-टोकालङ्कृतम् १३१ "तेषां पूर्वोक्तानां स्कन्धानां सर्वतोऽपि जीवेन । सर्वैर्देशैर्योगविशेषाद् ग्रहणं प्रदेशाख्यम् ॥१॥ प्रत्येकमात्मदेशाः कर्मावयवैरनन्तकैर्वद्धाः । कमोणि बनतो मुश्चतश्च सातत्ययोगेन ॥२॥" इतिकरणो मौलवन्धभेदेयत्ताप्रतिपादनार्थः । ज्ञानावरणादिकर्मणामष्टानामपि प्रकत्यादिमेद एव मौल इति ॥ ४ ॥ उत्तरसूत्रसम्बन्धार्थस्तत्रशब्दः। तत्र-तेषु चतुर्यु प्रकृत्यादिलक्षणेषु बन्धभेदेषु प्रथमो भेद उच्यते । स च बन्धो द्वेधामूलप्रकृतिवन्धः उत्तरप्रकृतिबन्धश्च । मूलप्रकृतिवन्धप्रतिपरपर्थमिदं वचनम्र सूत्रम्-आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीया युष्कनामगोत्रान्तरायाः ॥ ८-५॥ टी०-आदौ भव आयोऽनन्तरातीतसूत्र विन्याससंश्रयणात् (१) ज्ञानदर्शनयोः आवरणशब्दः प्रत्येकमभिसम्बध्यते ज्ञानावरणं दर्शनावरणमिति । ज्ञानमेव बोधलक्षणो विशेपविषयः पर्याय आत्मनः, तथा दर्शनपर्यायः सामान्योपलम्भलक्षणस्तयोरावरणं-आच्छाद .. नमावृतिः आवरणं आवियते वाऽनेनेति भावकरणयोयुत्पत्तिः, सुखदुःखन रूपेणानुभवितव्यत्वाद् वेदनीयमिति कर्म साधनम् । मोहयति मोहनं वा - मुह्यत्यनेनेति वा मोहनीयम् । एत्यनेन गत्यन्तराणीत्यायुः, आयुरेव चायुष्क स्वार्थे कन् । नामयतीति नाम प्रह्वयत्यात्मानं गत्याद्यभिमुखमिति, नम्यते वा प्रदीक्रियतेऽनेनेति नाम । कर्तरि करणे वा व्युत्पाद्यते । गोत्रं उच्चनीचभेदलक्षणं तद् मच्छति-प्रामोत्यात्मेति गोत्रम् । अन्तर्धीयतेऽनेनात्मनो वीर्यलाभादीति अन्तरायः । अन्तर्धानं वाऽऽत्मनो वीर्यादिपरिणामस्येत्यन्तरायः । “ कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, सू० ११३) इति लक्षणसद्भावात् सर्वत्र साधिमा प्रतिपत्तव्यः । तुल्यार्थत्वात् सकीयन्ते संज्ञा इति चेन्न प्रसिद्धतरत्वात् गोसोदिसंज्ञावत् । एवमेते ज्ञानावरणादयः कृत . द्वन्द्वाः प्रथमया निर्दिष्टाः । क्रमस्त्वेषामर्थापेक्षः । तथाच ज्ञानदर्शनावरशानावरणादीनां क्रमे हेतुः दाना णोदयजनिता सर्वसत्त्वानां भवव्यथा । तां च वेदयनानोशी मोहाभिभू ७ तत्वान्न विरज्यते । अविरक्तश्च देवमानुषतियङ्नरकायुषि वती । ने चानाम जन्म । जन्मवन्तश्चानुस्यूताः सदैव गोत्रेण । तत्र संसारिगां सुखलेशानुभवः सान्तरायः सर्व इत्यन्तरायनिर्देशः ॥ १ वदति ' इति इ-पाठः। २ अत्र काचित् त्रुटिरिति प्रश्नः। ३ व्यवस्था' इति ङ-पाठः । झानावरणादीन Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy