SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १३० तत्त्वार्थाधिगमसूत्रम् [अध्यायः ८ प्रकृतिशब्दः । दुष्टप्रकृतिर्दुष्टस्वभाव इति प्रसिद्धेः । ज्ञानावरणं ज्ञानाच्छादनस्वभावं मौलभेदतः, एवं दर्शनावरणादावपि योज्यम् । स्वभाववचनत्वे च भावसाधनः प्रकृतिशब्दः । स्थित्यनुभावशब्दावपि भावसाधनौ । इयत्तयाऽवधारणात् प्रदेशशब्दः कर्मसाधनः । क्रमनियमस्तु शेषविकल्पप्रकृतेगदौ प्रकृतिबन्धः । उपात्तस्यावस्थानकालपरिच्छेदात् ततः स्थितिबन्धः । सत्यां स्थितौ फलदानक्षमत्वादनुभावबन्धः। ततः कर्मपुद्गलपरिमाणलक्षणः प्रदेशबन्धः । स बन्ध इत्यत्र बन्धस्य प्रस्तुतत्वात्तच्छब्देन परामर्शः। विधिविधानं-भेद: तस्य विधयस्तद्विधयो-बन्धभेदा इति, एतद् भाष्यकृताऽऽविष्कृतमेव प्रत्येकं सम्बनता बन्धशब्दम् ॥ भा०-प्रकृतिबन्धः, स्थितिबन्धः, अनुभावबन्धः, प्रदेशबन्ध इति ॥४॥ तत्र टी-तत्र यथोक्तप्रत्ययसद्भावे सति पुद्गलादानं प्रकृतिबन्धः कर्मात्मनोरक्यलक्षणः, ततश्चात्मनोऽध्यवसायविशेषादनाभोगपूर्वकादाहारपरिणामवत् कर्मपरिणतिः स्थित्यादिलक्षणा । तथाचोक्तमेव कर्मपुद्गलराशेः कर्ता परिगृहीतस्यात्मप्रदेशेष्ववस्थान स्थितिः। अध्यवसायनिवर्तितः कालविभागः, कालान्तरावस्थाने सति विपाकवत्ताऽनुभावषन्धः। समासादितपरिपाकावस्थस्य बदरादेरिवोपभोग्यत्वात् सर्वदेशोत्येकद्वित्रिचतु:स्थानशुभाशुभतीव्रमन्दादिभेदेन वक्ष्यमाणः । ततस्तस्य कर्तुः स्वप्रदेशेषु कर्मपुद्गलद्रव्यपरिमाणनिरूपणं, प्रदेशबन्धः, अत्र च पारमर्षवचनविदः कणिकागुडघृतकटुकभाण्डादिद्रव्यविकार मोदकमाहरन्ति प्रकृत्यादिबन्धनिरूपणाय । तथाहि-चित्रः पुद्गलपरिणाम: कतुरध्यक्सायानुगृहीत इति भाव्यते । मोदको हि वातपित्तहरो बुद्धिवर्धनः संमोहकारी मारक इत्यनेकेनाकारेण परिणमते जीवसंयोगात्, तथा कर्मवर्गणायोग्यपुद्गलराशिरप्यात्मसम्बन्धात् कचिव ज्ञानमावृणोति, अपरो हि दर्शनं स्थगयति, अन्यः सुखदुःखानुभवहेतुरित्यादि योज्यम् । भूयस्तस्यैवाविपनगन्धरसादेरविनाशित्वेनावस्थान स्थितिः । आह च " इति कर्मणः प्रकृतयो मूलाश्च तथोत्तराश्च निर्दिष्टाः । तासां यः स्थितिकालनिबन्धः स्थितिबन्ध उक्तः सः॥१॥" तस्यैव च स्निग्धमधुरायेकद्विगुणादिभावोऽनुभावः । यथाऽऽह " तासामेव विपाकनिबन्धो यो नामनिर्वचनभिन्नः। ___स रसोऽनुभावसंज्ञस्तीवो मन्दोऽथ मध्यो वा ॥१॥" पुनस्तस्यैव कणिकादिद्रव्यपरिमाणान्वेषणं प्रदेशः, कर्मणोऽपि पुदलपरिमाणनिरूपणं प्रदेशबन्ध इति । यथोक्तम् १ 'कलापपरि०' इति ग-पाठः। २ 'घात्याघात्य' इति ग-पाठः। ३ 'कटुभाण्ड' इति च-पाः। ४' मोहकरो' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy