________________
सूत्रं ४] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१२९ घटकादिभाविनो मृवयवा आमेडिता यथा पिण्डे । तद्वज्ज्ञानावरणादिकर्मदेशा अपि ज्ञेयाः ॥३॥ आमेडितमविभक्तं यद्यप्यष्टविधमिष्यते कर्म । एवमपि जिनदृष्टं नानात्वं प्रकृतितस्तस्य ॥४॥ पुद्गलतासाम्येऽपि द्रव्याणां ननु विपाकतो भेदः। दृष्टः पित्तकफानिलपरिणामवतां स्वगुणभेदात् ॥ ५॥ यस्य गुणो यादृक् स्यात् ननु तादृशमेव भवति तस्य फलम् । नहि जाम्बवानि निम्बः फलति न जम्बुश्च निम्बानि ॥६॥ कर्मतरवोऽपि तद्वन्नानास्वस्वप्रयोगपरिषिक्ताः ।
नानास्वस्वगुणसमान् फलन्ति तांस्तान् गुणविशेषान् ॥७॥" एनमेव चार्थ भाष्यकारोऽपि स्पष्टयति भाष्येणभा०–स एष कर्मशरीरपुद्गलग्रहणकृतो बन्धो भवति ॥३॥
टी०-स एष इत्यादिना । स एष लोलीभूत आत्मप्रदेशकर्मपुद्गलपिण्डः स इत्यनेन परामृश्यते । एष इति नान्यः । तस्यैवानुसन्धानमाचष्टे । आत्मप्रदेशानां पुद्गलानां चान्योन्यानुगतिलक्षण एव बन्धो भवति । कर्मशरीरमिति कार्मणशरीरमात्मैक्याद योगकषायपरिणतियुक्तमपि च कर्मयोग्यपुद्गलग्रहणे-आत्मसात्करणे एकत्वपरिणामापादने समर्थम् । एवं च कर्मशरीरेण पुद्गलानां यद् ग्रहणं गृहीतिस्तत्कृतो बन्ध इति भावनीयं भवति ॥३॥
भा०-स पुनश्चतुविध:
टी-स पुनश्चतुर्विध इत्यनेनोत्तरसूत्रसम्बन्धं कथयति लक्षणविधानाभ्याम् । जीआदिपदार्थसप्तकव्याख्या प्रस्तुता, तत्र लक्षणतः प्रतिपादितो बन्धः । सम्प्रति लक्षितस्य विधान वाच्यम् । अतः स एष उक्तलक्षणको बन्ध एकरूपोऽपि कार्यभेदात् प्रकृत्यादिविभागमासादयति, अवस्थाभेदाद् वा, यथा पृथग्जनः क्रौर्यनीचैस्त्वलोभादिभेदानानात्वं प्रतिपद्यते तद्वद् बन्धोऽपीति । पुनःशब्दो बन्धं विशिनष्टि-द्रव्यभावभेदे सति भावबन्ध इति । चतस्रो विधा यस्य स चतुर्विधः-चतुःप्रकारः । तत्प्रकारनिरूपणायेदमाहबन्धस्य विधान- सूत्रम्-प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥८-४॥ चतुष्टयम्
टी०-प्रकृत्यादयः कृतद्वन्द्वाः भवनविभक्त्या निर्दिष्टाः, तत्र प्रकृतिमलिं कारणं प्रकृत्यादीनां मृदिव घटादिभेदोनामेकरूपपुद्गलग्रहणम् , अतः प्रक्रियन्तेऽस्य सकाशासाधनता दिति अकर्तरीत्यनुवृत्तेरपादानसाधना प्रकृतिः । स्वभाववचनो वा १'न तु' इति ग-पाठः। २'एकलोली' इति ङ-पाठः। ३ 'विभक्त्यादिनिर्दिष्टाः' इति ग-पाठः । 'भेदा भागैकति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org