________________
१२८
तत्त्वार्थाधिगमसूत्रम् ..
[ अध्यायः ८ नष्टि-कर्मशरीरग्रहणयोग्यानित्यर्थः । कमैंवाष्टविधं शरीरमुक्तम् , अतः स्वार्थे कर्मण(१)मिति प्रत्ययः । कर्मैव कार्मणं, कर्मसवात इत्यर्थः। ते पुनरादीयमानाः पुद्गलाः कर्ताऽऽत्मना किम्? नाम्ना कर्मणां प्रत्यया भवन्ति-कारणतां प्रतिपद्यन्ते, क वा व्यवस्थिताः ? कुतोवा योगविशेषादित्याधुपक्रम्येदमुक्तम् । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते । खल्वयमर्थः-सर्वकर्मणाम् अन्वर्थसंज्ञा नाम संज्ञेत्यनान्तरम् । तद्यथा-ज्ञानावरणमित्यादि । ज्ञानमावियते येन कर्मणा तत् ज्ञानावरणम्, एवं सर्वत्र नामान्वर्थ वाच्यम् । तस्यान्वर्थनाम्नो ज्ञानावरणादेः प्रत्ययाः-कारणानीति । नहि तान् पुद्गलान् विहाय ज्ञानावरणादिसंज्ञाः सिद्धयन्तीति । तथा सर्वासु दिक्षु व्यवस्थिताः, कायवाझनोयोगानां च तीव्रादिपरिणामविशेषादित्यादि सर्वमिहैवाध्याये प्रदेशबन्धनिरूपणे व्याख्यास्यते उपरिष्टादिति ॥२॥ एवं बन्धहेतूनू निरूप्याधुना बन्धस्वरूपनिरूपणायाह
सूत्रम्-स बन्धः ॥८-३॥ टी-बन्धनं बन्धः-परस्पराश्लेषः प्रदेशपुद्गलानां क्षीरोदकवत् प्रकृत्यादिभेदः। बध्यते वा येनात्मा-अस्वातन्त्र्यमापाद्यते ज्ञानावरणादिना स बन्धः पुद्गलपरिणामः । स चानन्तरसूत्रे आत्मप्रदेशेषु रागाद्यभ्यञ्जनेषु कर्मयोग्यपुद्गलानामाश्लेषमात्रत्वेनोक्तः, तस्य स इत्यनेन परामर्शः क्रियते । हेतुश्च निवर्तयन् कार्य हेतुव्यपदेशं प्रतिलभते । तस्य च मिथ्यादर्शनादेरिदमेव निर्वयं कार्य, पौरुषेयसामर्थ्यप्रतिबन्धकारि जीवप्रदेशेषु ज्ञानावरणादिपुद्गलजालावस्थानम् । सामर्थ्य च पुंसो ज्ञानदर्शनवीर्यसुखमत्त्वं तस्य प्रतिघातकमात्मप्रदेशप्रतिष्ठं पुद्गलजालमिति । प्रतिष्ठा च तस्य विशिष्टगुणयोगाद्, यथा दीप ऊष्मगुणयोगाद् वत्यों स्नेहमादायाचीरूपेण परिणमयति तथा रागादिगुणयोगात् कायादियोगवाऽऽत्मदीपः स्कन्धानादाय कमतया परिणमनमापादयति । कायादिकरणयोगाचात्मनो वीर्यपरिणतिर्भवतीति योगशब्देनोच्यते। तथा मृण्मयघटस्यामिसंयोगाद् रक्तत्वादिपरिणतिर्घटस्यैव तथाऽऽत्मनः कायादिकरणयोगवीर्यपरिणतिरात्मन एव प्रादुरस्ति, न द्रव्यान्तरस्येति । यथा च स्नेहाभ्यक्ते वपुषि जलावाससि वा परागो लगति मलीभवति च, तथा रागादिस्नेहाभ्यञ्जनस्यास्मनः कामणशरीरपरिणामोऽपूर्वकर्मग्रहणे योग्यतामास्कन्दति, आत्मदेहयोरैक्यादिना भोगवीर्यतः कर्मबन्धः । यथाऽऽह
“अपि चायं प्रायोगिकबन्धः स च भवति कर्तृसामर्थ्यात् ।
इष्टश्च स प्रयोगोऽनाभोगिकवीर्यतस्तस्य ॥१॥" . इति ॥
"ननु वीर्येणानाभोगिकेन परिपाच्य रसमुपाहरति ।
परिणमयति धातुतया, स च तमनाभोगवीर्येण ॥ २ ॥ __ १ 'कर्मणि ईर प्रत्ययः' इति प्रतिभाति । १ हेतुस्तन्निवर्त्य ' इति डा-पाठः। ३ 'सामर्थ्यतया' इति उपाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org