________________
प्रस्तावना
श्रीदेवगुप्तसूरिविचार:
यद्यपि द्वितीये विभागेऽस्मिन् न कोऽपि सम्बन्धः साक्षात् समस्ति श्रीदेवगुप्तसूरिप्रस्तावस्य तथापि प्रथमविभागगतसम्बन्धकारिकाप्रणेतृत्वपरिचयप्रकाशनपटु किमपि वक्तव्यं नासङ्गतिमङ्गति । संशोधनार्थ मया समासादितासु सर्वासु तत्त्वार्थाधिगमसूत्रप्रतिषु श्रीदेवगुप्तीया टीका श्रीसैद्धसेनीयायाः पूर्वमुल्लेखिता दरीदृश्यते । तत्र केनापि कारणेन भवितव्यमिति तर्के सति प्रतिभाति विकल्पोऽयं यदुत श्रीदेवगुप्तसूरयः श्रीसिद्धसेनसूरिभ्यः पूर्वगामिनो ज्यायांसो वा भवेयुः । अथवैतैः प्रणीतायाष्टीकायाः सम्बन्धकारिकाटीकाया एवोपलब्धिः पूर्वोल्लेखने कारणं भवेत् ।
गन्धहस्तिपदपरामर्श:
गन्धहस्तिपदमुपलभ्यते श्वेताम्बरीये दिगम्बरीये च साहित्ये । तावत् प्रथमं श्वेताम्बराणां साहित्य लक्ष्यीकृत्य किश्चिदुच्यते । शकस्तवेत्यपरनामधेये 'नमोत्थुणं 'नाग्नि प्राचीने स्तोत्रे 'पुरिसवरगन्धहत्थीण' इति परमकारुणिकचतुस्त्रिंशदतिशयधारिधर्मदेवश्रीतीर्थङ्करस्य विशेषण विद्यते, परन्तु न चास्यात्र किमपि विशिष्टं प्रयोजनं वर्तते । वृद्धवादिश्रीदेवसूरिशिष्यरत्नश्रीसिद्धसेनदिवाकराणां गन्धहस्तिरूपेणोल्लेखोऽकारि न्यायाचार्यन्यायविशारदमहामहोपाध्यायश्रीयशोविजयगणिभिः स्वनिर्मिते वीरस्तुतिरूपे न्यायखण्डखाये (श्लो. १६, पृ. १६) निम्नलिखितपङ्क्तिप्रणयनेन
“अनेनैवाभिप्रायेणाह गन्धहस्ती सम्मतौ" किन्तु भ्रान्तिमूलकोऽयमुल्लेख इत्यवगम्यते, यतः श्रीयशोविजयान् विहाय न केनापि ग्रन्थकारेण श्रीसिद्धसेनदिवाकराणां विषये तेषां सुनिश्चितां काञ्चन कृतिं तद्गतावतरणसमुद्धरणप्रसङ्गं वाऽऽश्रित्य 'गन्धहस्तीति विशेषणं प्रायुञ्जि । अपरञ्च श्रीसिद्धसेनदिवाकराणां जीवनवृत्तान्तस्य ये प्राचीना अर्वाचीनाश्च प्रबन्धाः सम्प्राप्यन्ते तत्रापि तेषां पदवीरूपेण उपनामरूपेण वा गन्धहस्तिपदं न दृष्टिपथमवतरति । तेषां दिवाकरेत्युपाधिस्तु दरीदृश्यतेऽन्यान्यस्थलेषु, यथाहि--श्रीहरिभद्रसूरिवरकृते पश्चवस्तुनामके ग्रन्थे (गां. १०४८) सन्मतितकस्य श्रीअभयदेवमूरिकृतायां व्याख्यायां च प्रथमे पृष्ठे ।।
किश्च गन्धहस्तिनामधेयाः केपि सूरय आसन्नित्यनुमीयते जम्बूद्वीपप्रज्ञप्तेः श्रीशान्तिचन्द्रवाचकविहितप्रमेयरत्नमञ्जूषाभिधवृत्तिगतेन निम्नलिखितेन पद्येन
१ एतत्सम्पादकमतेन 'सम्मति' नाम वास्तविकम् ।
२ श्रीभद्रेश्वरविरचितकथावलीगतः श्रीसिद्धसेनप्रबन्धः, प्रभावकचरित्रगतो वृद्धवादिप्रबन्धातर्गतः श्रीसिद्धसेनप्रबन्धः, प्रबन्धचिन्तामणिगतः श्रीसिद्धसेनप्रबन्धश्च । .३ "आयरियसिद्धसेणेण सम्मईए पइट्ठिअजसेणं । दूसमणि दिवागर'कप्पत्तणओ तदक्क्षणं ॥" ४“सिद्धसेनदिवाकरः तदुपायभूतसम्मत्याख्यप्रकरणे० ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org