SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना "सकया पायया चेव भणिईओ होंति दोण्णि वा। सरमण्डलम्मि गिजते पसत्था इसिभासिया ॥" -अनुयोगद्वारे सू० १२७, १३१तमे पत्रे एवं परिस्थित्यां सत्यां गीर्वाणगिरायां सिद्धान्तप्रणयनमनादिकालीनम् , यत् अनन्तानि तीर्थानि प्रवर्तितान्यद्यावधि । अतः केन प्रथममेवं कृतमिति प्रश्नस्य कोऽवकाशः ?। किञ्च श्रीमहावीरस्वामिसत्तायां श्रीइन्द्रभूतिप्रमुखैर्गणधरै रचितानि चतुर्दश पूर्वाणि विहायास्या हुण्डावसर्पिण्या अस्मिन्नरे गीर्वाणभाषामयः कः प्रथमो ग्रन्थ इति जिज्ञासातृप्त्यर्थं यथेष्टसाधनानामभावः, परन्तु वर्तमानकाले समुपलब्ध साहित्यमाश्रित्य तत्त्वार्थाधिगमसञकमिदं शास्त्रं प्राथमिकं स्थानमलङ्करोतीति कथने न मनागपि सन्देो वर्तते, सर्वेषां पूर्वाणामुच्छेदत्वात् । बालस्त्रीमन्दमूर्खानामप्युपकारिणी प्राकृतभाषां परिहाय कस्माद् हेतोर्गीर्वाणगिराऽऽश्रयि तत्त्वार्थसूत्र-प्रशमरतिप्रभृतिग्रन्थग्रथनकलानर्तकीनाट्याचार्यैवाचकवर्यैरित्यपि प्रश्नः समुपजायेत, किन्तु तस्य सन्तोषकारकमुत्तरं दातुं नाहमलम् । वाचकवारिधिसत्चासमये संस्कृतभाषायाः प्राधान्यं, दर्शनान्तरीयसाहित्यस्य एतभाषाद्वारा सुप्रचारस्यावलोकन, तेषां संस्कृतभाषाभाषिक्षेत्रेषु विहारः, तेषां ब्राह्मणजातिरित्यादिसम्भावनारूपप्रेरकबलेन तैस्तत्त्वार्थसूत्रस्य स्वोपज्ञभाष्यपूर्वकस्य प्रणयनं कृतं संस्कृतभाषायामिति सम्भाव्यते। १ छाया प्राय उपरिवत् । २ अन्तिमाश्चतुर्दशपूर्वधराः श्रीस्थूलभद्राः, प्रान्तिमा दशपूर्वधराः श्रीवज्रस्वामिनः, सार्धनवपूर्वधराः श्रीआर्यरक्षितसूरयोऽन्त्याश्चैकपूर्वविदः श्रीदेवर्द्धिगणिक्षमाश्रमणाः । श्रीवीरनिर्वाणात् वर्षसहस्र व्यतीते पूर्वविच्छेद इति भगवत्यां ( श. २, उ. ८, सू. ६७८ ) निर्देशः । स चायम् "जंबुद्दीवे णं भंते । दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं पुव्वगए अणुसजिस्सति । गोयमा। णं दीवे भारहे वासे इमीसे उ(ओ?)स्सप्पिणीए ममं एग वाससहस्सं पुव्वगए अणुसज्जिस्सति ।" [जम्बूद्वीपे भदन्त ! द्वीपे भारते वर्षेऽस्यामवसर्पिण्यां देवानुप्रियाणां कियन्तं कालं पूर्वगतमनुसंक्ष्यति । गौतम । द्वीपे भारते वर्षेऽस्यामवसर्पिण्या ममैकं वर्षसहस्रं पूर्वगतमनुसंक्ष्यति ।] किश्च निम्नावतारितोऽप्युल्लेखो वरीवर्तिः "वोलीणमि सहस्से, वरिसाणं वीरमोक्खगमणाउ । उत्तरवायगवसभे, पुव्वगयस्स भवे छेदो ॥ वरिससहस्से पुण्णे, तित्थोग्गालिऍ वद्धमाणस्स । नासि ही पुव्वगतं, अणुपरिवाडिएँ जं जस्स ॥" [व्यतीते सहा वर्षाणां वीरमोक्षगमतात् । उत्तरवाचकवृषभे पूर्वगतस्य भवेत् छेदः ॥ वर्षसहने पूर्णे तीर्थोदूगालिते वर्धमानस्य । नाशि ही पूर्वगतमनुपरिपाटितो यद् यस्य ॥] ३ प्राकृतभाषायां ये साम्प्रदायिका विचारा सुबद्धा आसंस्ते गीर्वाणगिरायां सुप्रसन्नसङ्क्षिप्तसरलशुद्धशैल्या वाचकवयः सफलं गुम्फिताः। अनेनानुमीयते यदुत वाचकवर्यसमयात् प्राकालीना जैनमुनिपुङ्गवाः संस्कृतभाषायां मन्थनिर्माणे न केवलं समर्था आसन्, किन्त्वेतस्यां दिशि सफलः प्रयासोऽपि तैः कृतः स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy