SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना "परब्रह्माकारं सकलजगदाकाररहितं ___ सरूपं नीरूपं सगुणमगुणं निर्विभु-विभुम् । विभिन्न सम्भिन्नं विगतमनसं साधुमनसं पुराणं नव्यं चाधिहृदयमधीशं प्रणिदधे ॥" इह हि निःसीमसंसारपारावारनिमज्जनत्रस्तानामाधिव्याध्युपाधिग्रस्तानां परिस्फुरज्जन्मजरामरणमोहानां करालकलिकालकवलितशेमुषीसन्दोहाना सङ्गितरुचीनां भव्यसत्त्वानां परोपकारसम्पादनमेव सर्वोत्तमा स्वार्थसिद्धिः सौजन्यसौशील्यसारल्यशेवधीनां सार्वसिद्धान्तसारपीयूषपानपीवराणां श्रीजिनेश्वरशासनप्रभावनाप्रभाऽऽविर्भावभास्कराणामिति मत्वा परोपकृतिकर्मकर्मठैः श्वेताम्बरपरम्परानुसारेण पञ्चशतप्रकरणप्रणेभिरप्रतिमप्रतिभामण्डलैर्वाचकाखण्डलैः श्रीउमास्वातीतिसुभगनामधेयैनं केवलं सन्दृब्धस्तत्वार्थाधिगमसूत्रनामा व्यक्तविषयात्मको महामूल्यो ग्रन्थः, किन्तु सङ्कलितोऽयं भवसन्ततिदारिकाभिरशेषक्लेशनिराकारिकाभिरुपोद्धातरूपिकाभिः सम्बन्धकारिकाभिः, समलङ्कृतश्च गीर्वाणगीर्गुम्फितेन सूत्रार्थप्रदीपकेन सरलसरससुश्लिष्टस्वोपज्ञभाष्येणेति समवगम्यते प्रथमविभागगवेषकैः। अद्याद्ययावदनुद्धृतस्यास्य ग्रन्थस्य प्रस्तावना प्रस्तूयते प्रतिज्ञापालनार्थ मन्दमेधसाऽपि मया । अवतार्यते तावन्मीमांसाभूमिकायां प्रश्नोऽयं यत् प्रथमं केन जैनमुनिरत्नेन संस्कृतभाषायां सिद्धान्तप्रणयनमकारि । प्रत्येकतीर्थङ्करशासने द्वादशाङ्गी रच्यते गणधरनामकर्मोदयवर्तिभिर्बीजबुद्धिभिर्गणधरदेवैः । तत्र दृष्टिवादसञ्ज्ञकं द्वादशाङ्गं प्रायो गीर्वाणगीगुम्फितं समस्ति । उक्तं च श्रीवर्धमानसूरिभिरवतरणरूपेण आचारदिनकरे निजप्रणयने "मुत्तूण दिहिवायं कालियउकालियंगसिद्धतं । थीबालवायणत्थं पाययमुइयं जिणवरेहिं ॥" अनेन निरस्यते मतमिदं केषाश्चिद् यदुत श्रीवीरनिर्वाणसमयानन्तरमेव जैनैः संस्कृतभाषाज्ञानं सम्पादितम् । अपरञ्च एतन्निरसने निम्नलिखिते गाथे अप्युपयुक्ते " सकया पागता चेव दुहा भणितीओ आहिया। सरमंडलम्मि गिजंते पसत्था इसिभासिता ॥" -स्थानाङ्गे सप्तमे स्थानके ३९४तमे पत्रे १ श्रीसिद्धसेनगणिवरैर्भाष्यकारिकेति नाम निरदेशि विंशतितमे पृष्ठे। २-३ छाया-मुक्त्वा दृष्टिवाद कालिकोत्कालिकाङ्गसिद्धान्तम् । स्त्रीबालवाचनार्थ प्राकृतमुदितं जिनवरैः ।। संस्कृता प्राकृता चैव द्विधा भणिती आहिते। स्वरमण्डले गीयेते प्रशस्ते ऋषिभाषिते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy