________________
१२६
तत्त्वार्थाधिगमसूत्रम् .. अध्यायः ८ रिकादिवर्गणाखष्टासु ज्ञानावरणादिकर्मयोग्याननन्तानन्तप्रदेशस्कन्धाश्चतु:स्पर्शान्, एतदेव च पुद्गलग्रहणेन स्पष्टयति । पूरणगलनलक्षणाः पुद्गलाः स्कन्धीभूतास्तानादत्ते, न पुनः क्रियामात्र कर्म । कर्म हि पौद्गलमिष्टं रूपादिमदिति । आदत्त इति कर्मात्मप्रदेशेषु लगयति । करोते: सर्वधास्वर्थवर्तित्वान्मिथ्यादर्शनाधावेशादा कृतस्यात्मनस्तदाकारपरिणतिक्रिया कर्मलगनहेतुः । कर्ता चात्मा क्रियायाः, क्रियानित्यं च कर्मेत्यमुमेवार्थ भाष्येण स्पष्टयति
भा०-सकषायत्वाज्जीवः कर्मणो योग्यान पुद्गलानादत्ते । कर्मणो योग्यानिति अष्टविधे पुद्गलग्रहणे कर्मशरीरग्रहणयोग्यानित्यर्थः । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते (अ०८, सू० २५) ॥२॥
टी-सकषायत्वादित्यादिना । पदच्छेदोऽपि हि व्याख्यानम् । अन्यथा वट' वृक्षे तिष्ठतीत्यादिषु निश्चय एव न स्यात् । ततः सामान्यं न्यायमाश्रित्य भाष्ये पदच्छेदद्वारे णार्थमाचष्टे । मिथ्यादर्शनादयः कर्मवन्धस्याष्टप्रकारस्य सामान्यहेतवोऽभिहिता एव प्रथम सूत्रे, किमर्थ पुनः कषायग्रहणं भेदेनेति ? उच्यते-कषायाणां प्रधानहेतुत्वप्रतिपादनार्थम् ।। तत्रामर्षोऽप्रीतिर्मन्युलक्षणः क्रोधः, स्वगुणपरिकल्पनानिमित्तत्वात् । अप्रणतिर्मानः । पअरामिं. सन्धाननिमित्तश्छमप्रयोगो माया। तृष्णापिपासाऽभिष्वङ्गास्त्रादलक्षणो लोभः । तत्रैककोऽनन्तानुबन्धी, संसारानुबन्धीत्यर्थः। एवमप्रत्याख्यानः प्रत्याख्यानावरणः संज्वलनश्चेति । त एते पापिष्ठा बन्धहेतवः संसारस्थितेर्मूलकारणं ऑजन्मजराभावलक्षणायाः कष्टतमाः प्राणिनामनराद्धवैरिणः । यथोक्तमार्षे ( दशवकालिके अ०८, उ० २, सू०४०)
"कोहो य माणो य अणिग्गहीया, माया य लोभो य पवमाणा।
चत्वारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥"-इन्द्रवज्रा तथा-"" अइदुक्खं लोए, जं च सुहं उत्तमं तिहुयणमि ।
तं जाण कसायाणं, वुक्खियहेउयं सव्वं ॥२॥" एतच्च सकषायत्वं हेतुत्वेनोपात्तम् । हेतुश्च धर्मिणो भवति, स च धर्मी जीव इत्याह । कषायपरिणामो हि परिणन्तुरात्मनो, न त्वपरिणामस्य सर्वगतस्याक्रियस्येति । यथाऽऽह
"जीवस्तु कर्मबन्धन-बद्धो वीरस्य भगवतः कतों। सन्तत्यानाधं च तदिष्टं कमोत्मनः कतुः॥१॥ संसारानादित्वाद् बन्धस्यानादिता भवति सिद्धा।
अत एव कर्म मूर्ते नामूर्त बन्धकं हीष्टम् ॥२॥ १ 'कर्मयोग्या०' इति घ-पाठः। २'अष्टविध.' इति घ-टी-पाठः। ३ 'निमित्ताशुद्धप्रयोगो' इति उ-पाठः। ४'आवजवी(?)भावलक्षणयोः' इति ग-पाठः। ५'पराधं वैरिणः' इति च-पाठः। ६ छाया
क्रोधश्च मानश्च अनिगृहीतौ माया लोभश्च प्रवर्धमानौ ।
चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ ७ छाया-यदतिदुःखं लोके यच्च सुखमुत्तमं त्रिभुवने।
तदू जानीहि कषायाणां वृद्धिक्षयहेतुजं सर्वम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org