SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सूत्रं २ ] योगानां पञ्चदशविधत्वम् बन्धप्रत्ययानां भजना स्वोपज्ञभाष्य-टीकालङ्कृतम् १२५: चतुर्धा | काययोस्तु सप्तप्रकारः - औदारिककाययोगः, औदारिकमिश्रकाययोगः, वैक्रिय काययोगः, वैक्रियमिश्र काययोगः, आहारककाययोगः, आहारकमिश्र काययोगः, कार्मणकाययोगश्चेति ॥ टी० - एषां सामान्यप्रत्ययानां मिथ्यादर्शनादीनां भजनां दर्शयति- नावश्यंतया यत्रैकप्रत्ययस्तत्रान्यैरपि भाव्यम् । कदाचिदेकस्मिन् सति सर्वे भवन्ति, कदाचिन्नेति । एषां पञ्चानामपि सामान्यप्रत्ययानां सूत्रक्रमसन्निवेशिनां बन्धनिमित्तानां पूर्वस्मिन् पूर्वस्मिन् सतीति वीप्सया नियतमुत्तरेषां भाव इति प्रतिपादयति । सति मिथ्यादर्शनप्रत्ययेऽवश्यंभाविनोऽविरत्यादयश्चत्वारः । सत्यामविरतौ त्रयः प्रमादादयः । सति प्रमादे कषाययोगौ । सत्सु कषायेषु योगा इति । योगप्रत्यय एव सति नेतरे चत्वार इत्यादि विपरीतं भाव्यं यावत् न. मिथ्यादर्शनप्रत्यय इत्येतदनेन प्रतिपादयति - उत्तरोत्तरभावे तु पूर्वेषामनियम इति । अविरतिप्रमादकषाययोगेषु सत्सु न मिथ्यादर्शनप्रत्ययः । योगकषायप्रत्यययोः सतोर्नाविश्यमितरे त्रय इति सुज्ञानमिति ॥ १ ॥ भा० - एषां मिथ्यादर्शनादीनां बन्धहेतूनां पूर्वस्मिन् पूर्वस्मिन् सति नियतमुत्तरेषां भावः । उत्तरोत्तरभावे तु पूर्वेषामनि-. यम इति ॥ १ ॥ एवमुपपादिते विस्तरेण बन्धहेतौ इदमाशङ्कते - कथममूर्तस्यात्मनो हस्ताद्यसम्भवे सति आदानशक्तिविरहात् कर्मग्रहणमिति १ । उच्यते – इयमेव तावदस्थानाऽऽरेका प्रक्रियाऽनभिज्ञस्य, केनामूर्तताऽभ्युपेताऽऽत्मनः ? कर्मजीवसम्बन्धस्यानादित्वादेकत्वपरिणामे सति क्षीरोदवमूर्त एव कर्मग्रहणे व्याप्रियते । न च बाह्यहस्तादिकरणव्यापारादेयं घटादिवत् कर्म पौगलमपि सत्, किन्तु अध्यवसायविशेषाद् रागद्वेषमोहपरिणामाभ्यञ्जनलक्षणादात्मनः कर्मयोग्यपुद्गल जाल श्लेषणमादानं, स्नेहाभ्यक्तवपुषो रजोलगनवदिति । एवंप्रकाराशङ्काव्यावृत्यर्थ - मिदमाह - कर्मबन्धे हेतुः सूत्रम् — सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ॥ ८-२ ॥ टी० –— कषायाः - क्रोधादयोऽनन्तानुबन्ध्यादिभेदाः । सह कषायैः सकषायाः तद्भावः सकषायत्वं तस्मात् सकषायत्वात् । हेतौ पञ्चमी । हेत्वर्थश्व कारणान्तरव्यावृत्तिः । पुनः कषायग्रहणं तीव्र द्याशयविशेषप्रतिपादनार्थम् उत्कृष्टस्थितिरसविशेषप्रतिपादनार्थं च । जीव इत्यात्मा कर्ता स्थित्युत्पत्तिव्ययपरिणतिलक्षणः । सति च कर्तृत्वे कर्मबन्धफलानुभवौ । क्रियत इति कर्माष्टप्रकारं तस्य योग्यानौदा १' इत्यादि सुज्ञानमिति ' इति च पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy