SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १२२ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ८ (सू०११) इत्यादिना सूत्रकलापेनेति । भाष्यकारस्तु पदविच्छेदेन पञ्चापि सामान्यप्रत्ययान् दर्शयति भा०-मिथ्यादर्शनमविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति। टी-मिथ्या अलीकमयथार्थ दर्शनं दृष्टिः-उपलब्धिरिति मिथ्यादर्शनम् । विरमणं विरतिः-संयमः, न विरतिरसंयमो हिंसाद्यनिवृत्तिरिति । प्रमाद्यत्यनेनेति प्रमादः विकथादि कर्मग्रन्थाद् कः । कर्मप्रकृतिग्रन्थेषु तु प्रमादप्रत्ययः पृथय नोक्तः । असंयमप्रत्ययेनैव संगृही__ भिन्नता तत्वाच्चतुर्विध एव प्रत्ययस्तत्राधीतः, प्रमादप्रत्ययः मिथ्यादर्शनासंयमकलापयोगाख्यः, इह त्वाचार्येण मन्दबुद्धिप्रतिपत्तिहेतोः पृथगुपन्यस्तः। कष्यते यत्र शरीरमानसर्दुःखैः स कपः-संसारः।"पुंसि संज्ञायां घः"(पा० अ०३, पा०३, सू०११८) तस्य आया-उपादानकारणानि कषायाः-क्रोधादयः। युज्यतेऽनेनेति योगः, नोकर्मणा योगद्रव्येणात्मेत्यर्थः। वीर्यान्तरायकर्मक्षयोपशमजनितेन वीर्यपर्यायेण युज्यत इति । इतिशब्दोऽवधारणार्थः । एत एव पञ्चविधा हेतवो भवन्ति सामान्यतः। तत्रेत्यादिना मिथ्यादर्शनादीनां स्वरूपं निरूपयति भा०-तत्र सम्यग्दर्शनाद् विपरीतं मिथ्यादर्शनम् । तद् विविधम्-अभिगृहीतमनभिगृहीतं च ॥ टी-तत्र-तेषु पञ्चसु प्रत्ययेषु मिथ्यादर्शनस्वरूपं तावदिदम्-सम्यग्दर्शनाद् विपरीतं मिथ्यादर्शनमिति तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमुक्तं ( अ० १, सू०२) तसात् सम्यग्दर्शनाद् विपरीतलक्षणं मिथ्यादर्शनं तत्त्वार्थाश्रद्धानं, अयथार्थश्रद्धानमित्यर्थः। तद् द्विविधमित्यादि । तच्च मिथ्यादर्शनं द्विविधं-द्विप्रकारं अभिगृहीतमनभिगृहीतं चेति । चशब्दात् सन्दिग्धवचनम् । अनभिगृहीतमिथ्यादर्शनभेदः सन्दिग्धमिति साक्षात् सूत्रोपात्तम् ॥ . भा०-तत्राभ्युपेत्यासम्यग्दर्शनपरिग्रहः अभिगृहीतमज्ञानिकादीनां प्र. याणां त्रिषष्ठीनां कुवादिशतानां, शेषमनभिगृहीतम् ॥ टी०-तत्रेत्यादि । तयोरभिगृहीतानभिगृहीतमिथ्यात्वयोरभिगृहीतप्रपश्चोऽयम्-अ. -भ्युपेत्येति । मत्यज्ञानादि किमपि परिकलय्यासम्बग्दर्शनपरिग्रहो मिथ्यादर्शनपरिग्रहस्तदभ्युपगम एतदेवैकं सत्यमिति प्रतिपत्तिरभिगृहीतमिथ्यात्वम् । तदर्शनेऽनेकमेदमित्याहअज्ञानिकादीनामिति । अज्ञानमेषामभ्युपगमोऽस्तीस्यज्ञानिकाः, अथवा अज्ञानेन चरन्ति दीव्यन्ति वा अज्ञानिकाः, अज्ञानमेव पुरुषार्थसाधनमभ्युपयन्ति, न खलु तत्वतः कश्चित् सक १ 'सामान्यतः' इति हु-पाठः, 'सामान्येन ' इति तु क-पाठः । २ 'तदनेक' इति च-पाठः । Jain Education International For Private.& Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy